________________
सदसद्रूपत्वसाधनम् ।
१९९ ऽनित्यतयोरभावः स्यात् । अनियताकारत्वाचानयोरविरोधः । नियताकारस्यैव कस्यचित् केनचित् सह विरोधात् ।
स्यान्मतिः-एकव्यवच्छेदेनान्यपेरिच्छेदो मा भूत् , अमिधानं पुनरस्ति, अनित्यताव्यवच्छेदेनैव नित्यशब्देन नित्यताया अभिधानात् । अन्यथा तदुच्चारणवैयर्थ्यप्रसङ्गः । तत एकशब्देन युगपन्नित्यता-अनित्यतयोरनभिधा[नानेकत्र सहावस्थानमिति । 5
___ अत्राप्याह-यत् पुनरिति नित्यानित्यात्मके वस्तुस्वरूपे नित्यानित्योभयविवक्षया 938 यदेतदेकेन विशेषाभिधायिना शब्देनानभिधानं तत्रापराध्यति क्षयोपशमो न विचारकः, क्षयोप
शमाधीना हि सर्वाः शब्दप्रवृत्तयः। स च क्षयोपशमो नास्ति येन युगपन्नित्यतानित्यतोभयामिधायी विशिष्टः शब्दो जन्यते । ततो युगपदेकशब्दानभिधानेऽपि न नित्यतानित्यतयोवस्तुन्यभावः। अत एवान्यव्यवच्छेदेनान्याभिधानमप्यसिद्धम् । क्षयोपशम- 10 सङ्केतैवशाद्धि नित्यशब्दः स्वार्थमात्रमभिधाय विरमति । न खलु बीजमङ्करं जनयतीत्युक्ते सहकारिभावेनानडुरजननं व्यवच्छिद्यते । या पुनरियमन्यव्यवच्छेदप्रतीतिः सा नित्यत्व
मात्राभिधानसामर्थ्य निबन्धना, शब्दो हि यदा नित्यत्वैकाभिधानसमर्थों नित्यत्वमेव 94A केवलमभिदधाति तदानित्यत्वं व्यवच्छिनत्तीति प्रतीयते । एवं चोच्चारणवेयर्थ्यमपि नास्ति,
स्वार्थाभिधानमात्रेण चरितार्थत्वात् । तस्मात् प्रमाणानुपपत्तिरेव विरोधो नान्यः, सा 15 चोत्पादत्र्ययध्रौव्याणां युगपदेकत्र भावेऽपि नास्तीति सर्व सुस्थम् । तदित्युपसंहरति ।
अत एवैकं सदसद्रपमपि, स्वरूपायैः सत् पररूपाद्यैरसत् । अन्यथा प्रतिनियतरूपायेव न स्यात् ।
___ अंत एवेति । यत एवोत्पाद-व्यय-ध्रौव्याणां युगपदेकत्र न विरोधस्तत एवैकं सदसद्रूपमपि न विरुध्यते । एकं सत् कथं सदसद्रूपमिति चेत् । उच्यते-स्वरूपाद्यैरिति । 20
आद्यशब्दाभ्यां क्षेत्र-भावादिग्रहः। घटः स्वरूपतः पार्थिवत्वेन सन् , नाबादित्वेन । 94B क्षेत्रतोत्रत्यत्वेन, न पाटलिपुत्रकत्वेन । भावतः श्यामत्वेन, न रक्तत्वादिना ।
__ अन्यथेति यदि पररूपाद्यैरसत्त्वं नेष्यते तदा वस्तु प्रतिनियतरूपायेव न स्यात् । यदि हि घटः पटरूपाद्यैरपि सन्निष्यते तदा यदेतदस्य प्रत्यक्षसिद्धं प्रतिनियतं पृथुवुध्नोदरादिरूपं विवक्षितक्षेत्रभावित्वं श्यामवर्णत्वं च तन्न स्यात् , किन्तु सर्वापर- 25 द्रव्यरूपीदिः स्यात् । १ शानं मा भूत् । शब्दोऽस्त्येव ।। २ शब्दः॥ ३ सामान्यशब्दस्तु वस्तु-पदार्थादि[भि ? भिधानमस्ति ।। ४ यत् पुनरुभयांशार्पणया एकशब्देन वस्तुस्वरूपानभिधानं तत्रापराध्यति क्षयोपशमः ।। ५ ओस् || * षष्ठाद्विवचनान्तं विग्रहे, क्षयोपशम-सङ्केतयोर्वशादित्यर्थः ।। ६ विजातीयकार्येष्वपि सहकारिभावेन कारणत्वात् ।। ७ तन्नोत्पाद-व्यय-ध्रौव्याणां युगपद्भावेऽपि विरोधः।। ८ अत एवैकं सदसदूप- 30 मपि॥ ९ स्वरूपाचेसत् पररूपाचैरसत् ॥ १० अन्यथा प्रतिनियतरूपाधव न स्यात् ॥ ११ सर्वक्षेत्रसर्वश्यामवर्णादयः ॥
__Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org