________________
२००
95A
स्थोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे न च स्वरूपादिसत्त्वमेव विशिष्टं पररूपाद्यसत्त्वम् , अपरासत्त्वाभावे वैशिष्टयस्यैवाभावात् ।
स्यादेवम्-यदेव स्वप्रतिनियतै रूपादिभिर्वस्तुनः सत्त्वं तदेव पररूपादिभिरसत्यम् । न खलु स्वरूपादिसत्वं पररूपाद्यसत्त्वं च द्वयमस्ति, किन्तु विशिष्टं स्वरूपादिसत्यमेवैकमस्ति । तत् कस्य केनाविरोधश्चिन्त्यत इति ।
तन्न। यस्मान्न च स्वरूपादिसत्त्वमेव विशिष्ट पररूपादिभिरसंसृष्टं पररूपाद्यसत्त्वमिति वक्तव्यम् , अपरेषां रूपादीनां यदसत्त्वं तस्याभावे स्वरूपादिसवस्य वैशिष्टयस्यैवाभावादघटनात् । यदि हि स्वरूपादिभिः सचं पररूपाद्यसंसृष्टत्वनिरपेक्षमेव पररूपाद्यसचमुच्यते तदा तथाभूते पररूपाद्यसत्त्वे सत्यपि पररूपादिभिः सत्त्वं प्रामोति, पररूपाद्यभावानवच्छिन्नेन रूपादिमात्रेण सच्चाभ्यनुज्ञानात् , पररूपादीनामपि रूपादि- 10 मात्रत्वानतिकमात् । अथ पररूपाद्यसंसृष्टं स्वरूपादिसत्त्वं पररूपाद्यसत्त्वमुच्यते । एवं तहि यत इदं स्वरूपादिसवं पररूपादिभिरसंसृष्टमुच्यते स स्वगतो रूपविशेषः स्व
रूपादिसत्त्वस्यैष्टव्यः। स चास्माकं पररूपाद्यसत्त्वमुच्यते । स्वरूपादिसवमपि स्वकारणे958 वस्तुनः प्रतिनियतं तदा जनितं स्यात् यदि पररूपाद्यसत्त्वमपि जनितं स्यात् । ततः स्वरूपादिसच्चमेव प्रतिनियतमुन्यमानं पररूपायसवमपरं परमार्थसदाकर्षति। 15
अर्घटस्त्वाह-"व्यतिरिक्तमपि भावांशाः नावांशमिच्छता भावांशः स्वभावेनाऽ१ न च स्वरूपादिसत्यमेव विशिष्टं पररूपाचमत्त्वम् ॥ २ अपरासत्वाभावे वैशिष्टयस्यवाभावात् ।। ३ ऽनविशिषे तेन ? ॥ * अत्र 'अविशेषितेन' इति आशयः समीचीनः प्रतीयते, अतः 'अन्' इति ‘अविशेषे' वर्तते, तेन अविशेषितेन इति अन्धकृतोऽभिप्रायो भाति ।। ४ . अस्य अर्चटग्रन्थस्य पण्डितदुर्वैकमिप्रविरचिता ब्याख्या
"ननु च तस्यासंकीर्णरूपता [न] स्वतः, किं त्वभावांशसभावात् । तत्कथमेवमभिधीयत इत्याशक्य कारणमाह-तथाहीत्यादि । अन्यथा तस्य परस्पमिश्रताप्रकारेण | स एवाभावांशः पराभावो न सिद्धयेत परारमवदिति भावः । अत्रैवाभ्युच्चयहेतुमाह न चेति । सा संकीर्णरूपता, कथं न युक्तिमतीत्याह-स्वहेतुबलेति स्वहेतुबलायातस्य तद्धेतुभावेन विशेषणम् । योगपरिवर्जन तस्यायोगात् । तेन वस्तु नेति सामर्थ्यात् ।
ननु तेन तस्य संकीर्णरूपस्य विनाश[ने] पराभावेन सर्वेषामेव भावानामुदयक्षणादूर्ध्वमभावादभावैक- 25 रसं जगत् स्यादिति प्रसजयितु युक्तं, न भू (तु) तेन संकीर्णरूपविनाशेन(शने) वरं स्वहेतोरेवासंकीर्णरूपाणामुदयोऽस्त्विति । सत्यम् । यथाश्रुतिः(ते) स्यादेव दोषः । केवलमस्य तात्पर्यार्थबोधे यरनः करणीयः । इह खलु भावानां क्षणभङ्गित्वेऽपि सदृशापरापरक्षणोदयावस्तुसन्तानविषया प्रतीतिरस्ति, न त्वभावविषयव । अत एव तत्ववार्मतथ(?)यामुपालवतोत्पद्यते। उदयोत्तरकालमव्यवधानेन वस्तुविषया च प्रतीतिः कथमुपपद्येत यदि स एवाभावः पूर्वसिद्ध संकीर्णरूपं विनाश्यान्यदसंकीर्णरूपमुत्पादयेत् । सति चवं 'वर वस्हेतोरेव तथाविधानामुदयो- 30 ऽस्तु'इत्युच्यत इति । हेतुरवेनार्थक्रियाकारित्वेन वस्तुरूपत्वादभावरूपतव हीयेतेत्येतदुपेक्ष्यैव चैतदुक्तं द्रष्टव्यम्
20
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org