Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
Frienटीकासहिते व्यालङ्कारे तृतीये प्रकाशे
प्रत्ययभेदश्च न स्यात् । घटः स्वरूपाद्यैः सन् पररूपाद्यैरसन्नित्येवं यः शब्दभेदः प्रत्ययभेदश्च स एकनिमित्तः कथं स्यात्, निमित्तवैरूप्यजत्वान्निमित्तिवैरूप्यस्य । शब्द974 प्रत्ययानां हि विषयगतं रूपं निमित्तम्, तचेदेकं तदा निमित्तिनामपि शब्दप्रत्यarathana | न खलु यत एव निमित्ताङ्गौग्यमिति शब्दः प्रत्ययो वा जायते तत ऐवाऽगौरित्यपि शब्दप्रत्ययभेदव्यवस्थानाभावप्रसङ्गात् । तच्छब्दप्रत्यय भेदान्यथानुपपच्याsपि न स्वरूपादिसत्त्वमेव पररूपाद्यसत्त्वम् ।
२०२
,
अन्यथेति यदि निमित्तैकत्वेऽपि निमित्तिभेद इष्यते तदा न प्रतिनियतोपादानपरिग्रहः स्यात् । यदा हि मृत्पिण्डो घटस्यैव निमित्तं न पटस्य तन्तवो वा पटस्यैव न घटस्य तदा घटार्थी मृत्पिण्डमेवानुधावति पढार्थी च तन्तूनेव । यदा तु निमित्तभेदेऽपि निमित्तिभेदस्तदा पटार्थी मृत्पिण्डमप्यनुधावेत् घटार्थी च तन्तूनपि । 10
पीतमेव वा सकलनीलशुक्लरक्तादिप्रत्ययानां हेतुः स्यात् । यथा हि स्वरूपादि978 सत्त्वमेवैकं वस्तुनि सदसदिति प्रत्ययहेतुरिष्यते तथा किमिति पीतमेवैकं सकलनीलादिप्रत्ययानामुत्पादकं नेष्यते । एवं च नीलशुक्लादिरूपमपि पररूपाद्यसच्चमिव न कल्पनीयं स्यात्, स्वरूपादिसत्त्वादिव पीतादेवैकम्मात् पररूपाद्यसत्त्वप्रत्ययवनीलादिप्रत्ययानामाविर्भावसम्भवात् । तस्मात् प्रतिनियतोपादानपरिग्रहात् पीतादेवैक- 15 स्मात् सकलनीलादिप्रत्ययानामनुत्पादाच्च शब्दप्रत्यय भेदो निमित्तभेदनिबन्धन एवैष्टव्यः ।
5
एकस्मादनेकसंविदां भावेऽपि न विजातीयत्वम्, सर्वज्ञताभेदप्रसङ्गात् । न चार्थनिबन्धनास्तद्बुद्धयः, अतीतादिषु भावात् । अन्यथा तद्रूपतेव न स्यात् ।
20
स्यादेवम् —– एकस्मादपि घटविपयादनेक सर्वज्ञानामनेका बुद्धयः प्रादुर्भवन्ति, तत् कथं न व्यभिचार इति । उच्यते - एकस्मादिति । एकनिमित्तत्वे प्रत्ययानामनेकत्वं 98A न निवार्यते किन्तु विजातीयत्वम्, भेदशब्देन विजातीयत्वस्येष्टत्वात् । तच्च घटैकविषयाणामने सर्वज्ञबुद्धीनां नास्ति, सर्वासां घटग्रहणपरिणामवत्त्वेनोत्पादादिति न व्यभिचारः । एवं च स्वरूपादिसत्वमप्यनेकान् प्रत्ययानुत्पादयतु नाम । यत्पुनः 25
१ किन्तु अन्यस्मान्महिषादेः || २ अन्यथा न प्रतिनियतापादानपरिग्रहः ॥ ३ पीतमेत्र वा सकलनीलादिप्रत्ययहेतुः स्यात् ॥ ४ एकस्मादनेकसंविदां भावेऽपि न विजातीयत्वम् ॥ ५ विजातीयत्वम् || ६ '६' [ = विग्रहे षष्ठयन्तम् ] ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318