SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Frienटीकासहिते व्यालङ्कारे तृतीये प्रकाशे प्रत्ययभेदश्च न स्यात् । घटः स्वरूपाद्यैः सन् पररूपाद्यैरसन्नित्येवं यः शब्दभेदः प्रत्ययभेदश्च स एकनिमित्तः कथं स्यात्, निमित्तवैरूप्यजत्वान्निमित्तिवैरूप्यस्य । शब्द974 प्रत्ययानां हि विषयगतं रूपं निमित्तम्, तचेदेकं तदा निमित्तिनामपि शब्दप्रत्यarathana | न खलु यत एव निमित्ताङ्गौग्यमिति शब्दः प्रत्ययो वा जायते तत ऐवाऽगौरित्यपि शब्दप्रत्ययभेदव्यवस्थानाभावप्रसङ्गात् । तच्छब्दप्रत्यय भेदान्यथानुपपच्याsपि न स्वरूपादिसत्त्वमेव पररूपाद्यसत्त्वम् । २०२ , अन्यथेति यदि निमित्तैकत्वेऽपि निमित्तिभेद इष्यते तदा न प्रतिनियतोपादानपरिग्रहः स्यात् । यदा हि मृत्पिण्डो घटस्यैव निमित्तं न पटस्य तन्तवो वा पटस्यैव न घटस्य तदा घटार्थी मृत्पिण्डमेवानुधावति पढार्थी च तन्तूनेव । यदा तु निमित्तभेदेऽपि निमित्तिभेदस्तदा पटार्थी मृत्पिण्डमप्यनुधावेत् घटार्थी च तन्तूनपि । 10 पीतमेव वा सकलनीलशुक्लरक्तादिप्रत्ययानां हेतुः स्यात् । यथा हि स्वरूपादि978 सत्त्वमेवैकं वस्तुनि सदसदिति प्रत्ययहेतुरिष्यते तथा किमिति पीतमेवैकं सकलनीलादिप्रत्ययानामुत्पादकं नेष्यते । एवं च नीलशुक्लादिरूपमपि पररूपाद्यसच्चमिव न कल्पनीयं स्यात्, स्वरूपादिसत्त्वादिव पीतादेवैकम्मात् पररूपाद्यसत्त्वप्रत्ययवनीलादिप्रत्ययानामाविर्भावसम्भवात् । तस्मात् प्रतिनियतोपादानपरिग्रहात् पीतादेवैक- 15 स्मात् सकलनीलादिप्रत्ययानामनुत्पादाच्च शब्दप्रत्यय भेदो निमित्तभेदनिबन्धन एवैष्टव्यः । 5 एकस्मादनेकसंविदां भावेऽपि न विजातीयत्वम्, सर्वज्ञताभेदप्रसङ्गात् । न चार्थनिबन्धनास्तद्बुद्धयः, अतीतादिषु भावात् । अन्यथा तद्रूपतेव न स्यात् । 20 स्यादेवम् —– एकस्मादपि घटविपयादनेक सर्वज्ञानामनेका बुद्धयः प्रादुर्भवन्ति, तत् कथं न व्यभिचार इति । उच्यते - एकस्मादिति । एकनिमित्तत्वे प्रत्ययानामनेकत्वं 98A न निवार्यते किन्तु विजातीयत्वम्, भेदशब्देन विजातीयत्वस्येष्टत्वात् । तच्च घटैकविषयाणामने सर्वज्ञबुद्धीनां नास्ति, सर्वासां घटग्रहणपरिणामवत्त्वेनोत्पादादिति न व्यभिचारः । एवं च स्वरूपादिसत्वमप्यनेकान् प्रत्ययानुत्पादयतु नाम । यत्पुनः 25 १ किन्तु अन्यस्मान्महिषादेः || २ अन्यथा न प्रतिनियतापादानपरिग्रहः ॥ ३ पीतमेत्र वा सकलनीलादिप्रत्ययहेतुः स्यात् ॥ ४ एकस्मादनेकसंविदां भावेऽपि न विजातीयत्वम् ॥ ५ विजातीयत्वम् || ६ '६' [ = विग्रहे षष्ठयन्तम् ] ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy