Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 252
________________ उत्पाद-व्यय-ध्रौव्यसाधनम् । १८७ अत्राहस्वहेतुभ्यस्तत्तद्धेतुयोगतस्तथा तथा परिणामिनो भावाः । स्वहेतुभ्य इति मृत्पिण्ड-चक्र-चीवरादिसामग्रीभ्यस्तस्य तस्य विचित्ररूपद्रव्यक्षेत्र-भाव-मुद्रादिहेतोः सम्बन्धेन यस्य यस्य रूपस्योत्पादका हेतवः सन्निधीयन्ते तेन तेन नवपुराणादिना कपालादिना च रूपेण परिणमनशीला भावा भवन्ति । 5 परिणामान्तरांशात्मक एव हि भावस्य विनाशः, परिणामान्तरं च किश्चिन्नवपुराणादि घटादिद्रव्येऽवस्थितेऽपि प्रतिसमयभाव्यन्यान्यद्रव्यादिहेतुसनिधानादपरापरं प्रतिसमय 788 मुपजायते, किश्चित्त कपालादि घटादिपर्यायोच्छेदात्मक प्रतिसमयानुपस्थायिमुद्रादि हेतुसन्निधानात् कालपरिवासनोपजायते । नत्र परमार्थवेदिनां प्रतिसमयमपि घटादिद्रव्ये विनाशबुद्धिर्भवति, स्थूलदृशां पुनः कपालादिपर्यायोत्पादे सति । प्रतिक्षणं 10 हि सदृश-विसदृशाभिनवपर्यायोत्पादेन सर्वाण्यपि द्रव्याणि पर्यायरूपतया विनश्यन्त्येव, केवलमावरणक्षयोपशमतारतम्येन क्वचित् कदाचित् कस्यचिद्विनाशबुद्धिरुपजायते । एतदुक्तं भवति-नोच्यते स्वहेतुभ्यो भावाः प्रतिक्षणविनश्वरा जायन्ते नाप्यविनश्वरा नापि कियत्कालावस्थायिन इति । किन्त्वेतावदुच्यते-स्वहेतुभ्यो यथाहेतुसन्निधानं नवनवरूपैः परिणामशीला भावा भवन्ति । नवनवरूपैः परिणामश्च कारणान्वय- 15 व्यतिरेकानुविधायी प्रत्यक्षसिद्धः । तैदभिन्न एव च विनाशः । एवं च व्यवस्थापिते सति 79. विनाशस्य सहेतुकता वा भवतु निर्हेतुकता वा सर्वदाप्यभवनं वा, कि तेनावयोरिति । _____ अयं चात्र न्यायः-यदुत्तरसन्तानोत्पादकं तत्पूर्वसन्ताननिवर्तकम् , यदेवं न भवति तदुत्तरसन्तानोत्पादकमपि न भवात यथा घटः पटस्य, उत्तरसन्तानोत्पादक च विवादपदम् , उत्तरसन्तानोत्पादकत्वं च पूर्वसन्तानक्षणस्योत्तरक्षणाजनकत्वे [सति 20 विनाशोत्पादकत्वेन व्याप्तम् , तथा च पूर्वसन्ताननिवृत्तिस्तत्कृतैवेति । तन्न विनाशाहेतुकत्वपि निरन्वयनाशाय । तदित्युपसंहरति । हेतोाप्त्यभावादसिद्धत्याचेति कारणद्वयं पूर्वोपन्यस्तमेवात्र द्रष्टव्यम् । तस्मान्नैकान्तनित्या नाप्येकान्तक्षणिका भावा इति व्यवस्थितम् । । बहतुभ्यस्तत्तद्धतुयांगतस्तथा तथा परिणामिनो भावाः ॥ २ विलम्बेन ।। ३ उत्तरपर्याया- 25 भिन्नः ॥ ५. मुद्रादि ॥ ६ कपालादिसन्तान ।। ७ घटादिसन्तान ।। ८ मद्रादि । ९ * अत्रेद बोध्यम्-'जनकत्वे x त्पादकत्वे न व्याप्तम । तथा च' इत्येवं दक्षिणभागे बहिस्तात Margin मध्ये पउिक्तद्वयमध्ये लिखितमस्ति। - एतच्च चिह्नत्वे इत्यस्य पश्चाद उपरिभागे लिखितमस्ति । एतच्चिद्रं पाठयूरणाय हस्तलिखितादर्शषु लिख्यते । किन्तु ग्रन्थकारण कुतोऽप्यनवधानादिकारणेन पाठः 30 परितो न विलोक्यते । अतोऽस्माभिः कल्पनया कश्चित् पाठं पूरयित्वा ईदृशः पाठोऽत्र लिखितः। जनकत्वेन व्याप्तम इत्यपि पाठेन कार्य तु सिध्यति ।। १०तन विनाशाहेतुकत्वमपि निरन्वयनाशाय ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318