Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 257
________________ १९२ स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे न सहकारिण इति । नन्वेतदस्माभिरन्यत्र स्वकारणशरणानुसरणमनुष्ठीयमानं किमिति भवतः परसम्पदुत्कर्षद्वेषिणो हृदयशूलोत्थानायोपकल्पते । वयमपि विमभिधातुं समर्था यया-तथा कृतशब्दसङ्केतस्य पुरुषस्य क्षयोपशमेन निर्विकल्पकमुपजन्यते यथा सङ्घ तितशब्दस्मरणनिरपेक्षमपि सविकल्पकं ज्ञान पजनयतीति । ___ अपि चैवं कारणानुसरणे इदमपि स्यात् यथेन्द्रियाद् बोधरूपता विज्ञाने 5 83A नालयविज्ञानात् । न चावोधरूपात् कथं बोधस्योत्पत्तिरिति वाच्यम् । यतः स्वकारणा न्येवात्र प्रश्नमर्हन्ति यरबोधरूपमपि बोधजननायेन्द्रियमुपजनितम् । ननु यदीन्द्रिय बोधरूपताकरणसमर्थ स्यात्तदा तदात्मीयोत्तरक्षणेऽपि कुर्यात् न चैवम् , अतो ज्ञायते विज्ञानेऽपि बोधरूपता न तदुपादानेति । तदपि न, विज्ञान एव बोधजनने समर्थमिन्द्रियं स्वकारणैर्जनितं नात्मीयोत्तरक्षण इत्युत्तरस्य सुलभत्वात् । इन्द्रियाभावेऽपि 10 मानस विकल्पे बोधरूपताऽस्त्येवेति चेत्, न, तत्र मनोजन्यत्वस्य वक्तुं शक्यत्वात् । विजातीयत्वाद्वा, न हीन्द्रियजा धर्मा अनिन्द्रियजे भवन्तीति । स्यादेवम्-इन्द्रियाद् बोधरूपता विज्ञानस्येप्टेव, इन्द्रिया-ऽऽलोक-मनस्कार-विषयप्रभवत्वात् तेस्य । तत् कोऽयं प्रसङ्ग इति । तन्न, सामग्रीप्रभवत्वेऽपि ज्ञानस्येन्द्रियाद्विषयग्रहणयोग्यतानियमस्यैवेष्टत्वात् । यदुक्तं हेतुविन्दो-"समनन्तरप्रत्ययाद्वि- 15 ज्ञानाचक्षुर्विज्ञानस्योपलम्भात्मता । तस्यैवोपलम्भात्मनः सतश्चक्षुरिन्द्रियाद्रपग्रहणयोग्यताप्रतिनियमः। विषयात् तत्तुल्यरूपता। इत्यभिधत्वेऽपि वस्तुतः कार्यस्य कारणानां भिन्नभ्यः स्वभावेभ्यो मित्रा एव विशेषा भवन्ति" हेतुबिन्दैः पृ०१०-११] इति । ___तस्माद्यत्र कार्यकारणयोर्मेदः प्रत्यक्षसिद्धो भवति तत्रातिप्रसङ्गारिहाथै कारणोपजनितशक्तिप्रतिनियम उपन्यस्यते । यथा भेदाविशेषेऽप्यालोकपरमाणव एव रूपज्ञानं 20 जनयन्ति, न तमःपरमाणवः । अत्र तु भेद एव सन्दिग्धः। ततोऽतिप्रसङ्गपरिहारार्थ कारणानुसरणं यदि परं निर्गतिकत्वेन दैन्यमात्रमेवावगमयति । तस्मादपादानत्वव्यापकं कथञ्चित् कार्ये स्वधर्मारोपकत्वं कथञ्चित् कार्यात् कारणस्याभेद एव घटते, नान्यथा । 358 86A १ एतावता सविकल्पस्य प्रामाण्य साधितमिति ॥ २ सजातीयोत्तरेन्द्रियक्षणेऽपि ॥ ३ बोधरूपताम् ॥ ४ 25 इन्द्रियम् ।। ५ प्रसः [प्रथमसमासः, बहुव्रीहिरित्यर्थः] ॥ ६ मानसविकल्पे ।। ७ कारणमात्रत्वेन ॥ ८ विज्ञानस्य । ५ समो ज्ञानत्वेन । अनन्तरोऽव्यवहितत्वेन ॥ १० तेन अर्थेन सता तुल्यरूपता तुल्याकारता ॥ ११ * दृश्यतां हेतुबिन्दुटीकायामेतद्विवरणम् , पृ० १११ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318