________________
१९२
स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे न सहकारिण इति । नन्वेतदस्माभिरन्यत्र स्वकारणशरणानुसरणमनुष्ठीयमानं किमिति भवतः परसम्पदुत्कर्षद्वेषिणो हृदयशूलोत्थानायोपकल्पते । वयमपि विमभिधातुं समर्था यया-तथा कृतशब्दसङ्केतस्य पुरुषस्य क्षयोपशमेन निर्विकल्पकमुपजन्यते यथा सङ्घ तितशब्दस्मरणनिरपेक्षमपि सविकल्पकं ज्ञान पजनयतीति ।
___ अपि चैवं कारणानुसरणे इदमपि स्यात् यथेन्द्रियाद् बोधरूपता विज्ञाने 5 83A नालयविज्ञानात् । न चावोधरूपात् कथं बोधस्योत्पत्तिरिति वाच्यम् । यतः स्वकारणा
न्येवात्र प्रश्नमर्हन्ति यरबोधरूपमपि बोधजननायेन्द्रियमुपजनितम् । ननु यदीन्द्रिय बोधरूपताकरणसमर्थ स्यात्तदा तदात्मीयोत्तरक्षणेऽपि कुर्यात् न चैवम् , अतो ज्ञायते विज्ञानेऽपि बोधरूपता न तदुपादानेति । तदपि न, विज्ञान एव बोधजनने समर्थमिन्द्रियं स्वकारणैर्जनितं नात्मीयोत्तरक्षण इत्युत्तरस्य सुलभत्वात् । इन्द्रियाभावेऽपि 10 मानस विकल्पे बोधरूपताऽस्त्येवेति चेत्, न, तत्र मनोजन्यत्वस्य वक्तुं शक्यत्वात् । विजातीयत्वाद्वा, न हीन्द्रियजा धर्मा अनिन्द्रियजे भवन्तीति ।
स्यादेवम्-इन्द्रियाद् बोधरूपता विज्ञानस्येप्टेव, इन्द्रिया-ऽऽलोक-मनस्कार-विषयप्रभवत्वात् तेस्य । तत् कोऽयं प्रसङ्ग इति । तन्न, सामग्रीप्रभवत्वेऽपि ज्ञानस्येन्द्रियाद्विषयग्रहणयोग्यतानियमस्यैवेष्टत्वात् । यदुक्तं हेतुविन्दो-"समनन्तरप्रत्ययाद्वि- 15 ज्ञानाचक्षुर्विज्ञानस्योपलम्भात्मता । तस्यैवोपलम्भात्मनः सतश्चक्षुरिन्द्रियाद्रपग्रहणयोग्यताप्रतिनियमः। विषयात् तत्तुल्यरूपता। इत्यभिधत्वेऽपि वस्तुतः कार्यस्य कारणानां भिन्नभ्यः स्वभावेभ्यो मित्रा एव विशेषा भवन्ति" हेतुबिन्दैः पृ०१०-११] इति । ___तस्माद्यत्र कार्यकारणयोर्मेदः प्रत्यक्षसिद्धो भवति तत्रातिप्रसङ्गारिहाथै कारणोपजनितशक्तिप्रतिनियम उपन्यस्यते । यथा भेदाविशेषेऽप्यालोकपरमाणव एव रूपज्ञानं 20 जनयन्ति, न तमःपरमाणवः । अत्र तु भेद एव सन्दिग्धः। ततोऽतिप्रसङ्गपरिहारार्थ कारणानुसरणं यदि परं निर्गतिकत्वेन दैन्यमात्रमेवावगमयति । तस्मादपादानत्वव्यापकं कथञ्चित् कार्ये स्वधर्मारोपकत्वं कथञ्चित् कार्यात् कारणस्याभेद एव घटते, नान्यथा ।
358
86A
१ एतावता सविकल्पस्य प्रामाण्य साधितमिति ॥ २ सजातीयोत्तरेन्द्रियक्षणेऽपि ॥ ३ बोधरूपताम् ॥ ४ 25 इन्द्रियम् ।। ५ प्रसः [प्रथमसमासः, बहुव्रीहिरित्यर्थः] ॥ ६ मानसविकल्पे ।। ७ कारणमात्रत्वेन ॥ ८ विज्ञानस्य । ५ समो ज्ञानत्वेन । अनन्तरोऽव्यवहितत्वेन ॥ १० तेन अर्थेन सता तुल्यरूपता तुल्याकारता ॥ ११ * दृश्यतां हेतुबिन्दुटीकायामेतद्विवरणम् , पृ० १११ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org