________________
उत्पाद व्यय-धोव्यसाधनम् । न चैवम् , अतो न सदृशापरापरोल्पत्तितो ज्ञानेनुवृत्ताकारः, किं तर्हि ? वस्तुगतपारमार्थिकैकत्वात् ।
ननु स्वलक्षणग्राहि निर्विकल्पकं व्यावृत्ताकारमेव । यः पुनरयमनुवृत्ताकारः स भ्रान्तविकल्पाकारत्वादप्रमाणमेवेति न वस्तुन्यनुवृत्ताकारः सैन् सिध्यतीति । 838 नन्वयमनुवृत्ताकारो विकल्पः कुतो भ्रान्तः ? अविद्यमानस्यानुवृत्ताकारम्य ग्रहणादिति 5
चेत् , कुतः पुनरविद्यमानत्वं वस्तुन्यनुवृत्ताकारस्य ? त्रिकालावस्थायित्वयक्रियाऽयोगादिति चेत् , ननु त्रिकालावस्थायित्वेऽपि सहकारिजनितपरिणामविशेषात् क्रमयोगपद्याभ्यामर्थक्रिया युज्यत एव । एवं सत्यनित्यता म्यादिति चेत्, को वै कथञ्चित् तामपि नानुजानाति, पर्यायरूपतया तेस्या अपि भावात् । तम्मादेकान्तनित्यत्वेऽर्थक्रियाऽयोगो न कथञ्चिन्नित्यत्वे । एवं च मत्यनुवृत्ताकारो वस्तुगतः 10
परमार्थसन्नेव । परमार्थसत्परिच्छेदकस्य च विकल्पस्याभ्रान्तत्वेन तद्गताकारोऽपि 84A प्रमाणमेवेति सिद्धं प्रत्यक्षत एव सान्वयनाशि वस्तु ।।
अनुमानमप्युच्यते-पूर्वो घटक्षण उत्तरघटक्षणात् कथश्चिदभेदी, उपादानत्वेन कारणत्वात् । यः पुनः कथञ्चिदभेदी न भवति स उपादानत्वेन कारणमपि न भवति, यथाऽऽलोकः । उपादानत्वं हि कार्य कथश्चित् वधर्मारोपकत्वेन व्याप्तम् , तेच 15 सहकारिप्रत्ययानामपि प्रसङ्गादेकान्तभेदे सति न युज्यते ततस्तनिवर्तमानं स्वव्याप्यमुपादानत्वमपि निवर्तयतीति व्याप्तिसिद्धिः।
स्यादेवम्-भेदाविशेषेऽप्युपादानस्यैवेयं प्रतिनियता म्वधर्मारोपकत्वशक्तिन सहकारिणामिति । नन्वन्वयव्यतिरेकाभ्यां तुल्ये सर्वेषां कारणत्वे सर्वथा भेदे वोपा
दानस्य कथश्चित् कार्याभेदादन्यां प्रतिनियतां शक्तिं न विद्मः। "भेद-हेतुभावा- 20 848 विशेषेऽपीयमेवोपादानस्य कथञ्चित् स्वधर्मारोपकत्वे प्रतिनियता शक्तियदेतत् कथश्चित् कार्यादभिन्नं न तु सहकारिण इति ।
ननु भेद-हेतुभावों विशेषेऽपि सर्वेषामुपादानस्य प्रतिनियता शक्ति भेदनिबन्धना, किन्तु स्वकारणनिबन्धना। स्वकारणैरुपादानमेव स्वधर्मारोपकमुपजनितं १ स्वमसाधारणं सजातीयविजातीयव्यावृत्तं ।। २ वस्तुभूतः ॥ ३ आ[चार्यः॥ ४ वस्तुनः॥ ५ क्षणि- 25 कतेत्यर्थः ॥ ६ अनित्यतायाः॥ ७ विकल्पगतानुवृत्त्याकारोऽपि ॥ ८ परिणामित्वेन ।। ९ स्वधर्मारोपकत्वम् ॥ १० एकान्तभेदात् ॥ ११ स्वधर्मारोपकत्वम् ।। १२ • अत्र पञ्चाक्षरप्रमाणं सूक्ष्माक्षरैलिखितं टिप्पणमस्ति, किन्तु पठितुं न शक्यते। केवलं भेदा इति आधमक्षरद्वयं कथञ्चित् पठितुं शक्यते ॥१३ '६' [विग्रहे षष्ठयन्तम् ] ॥ १४ उपादानम् ॥ १५ '६' [-विग्रहे षष्ठयन्तम् ] ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org