________________
स्वोपाटीकासहिते द्रव्यालङ्कारे मृतीये प्रकाशे । स्थानादिति । उच्यते-नापति । सर्वस्य द्रष्टुः सर्वत्र देशावस्थादावस्खलितोऽनुपचरितोऽनुपजातप्रमाणबाधो वा प्रत्ययो प्रान्तो वक्तं शक्यो घटादिप्रत्ययस्यापि भ्रान्तत्वप्रसङ्गात् । तस्मात् प्रत्यक्षप्रमाणोपपत्रमेव वस्तुनोऽनुवृत्तव्यावृत्ताकारत्वम् । तदेव च सान्वयनाशित्वमतस्तदपि तथैव ।
स्यादेवम्-लुनपुनर्जातकदलीम्तम्भ-केश-नखादिष्वप्यनुवृत्तव्यावृत्ताकारः प्रत्ययो 5 भवति, न च तेष्वनुवृत्ताकारोऽस्ति, ततश्चैतत्प्रत्ययवद् भ्रान्त एवार्यमिति । तदयुक्तम् , न खल्वेकत्र भ्रान्ततायां सर्वत्रापि तथाभावः, मरीचिकायां जलज्ञानस्य भ्रान्तत्वे
सर्वत्र तथाभावप्रसङ्गात् । अपि च, कदलीस्तम्भादिप्वप्यनुवृत्तांशः परमार्थसन्नवास्ति । 82B तदाह-लूतति । कदलीस्तम्भादीनामूर्वभागलवनेऽप्यधोभागोऽवतिष्ठते स एव च
पुनः प्ररोहति । अतः कथश्चित् प्राक्तना एव कदलीस्तम्भ-केश-नखादयः पश्चादपि । 10 ननु यत्र प्राचीनं रम्भास्तम्भ समूलका कषित्वाऽपर एव रम्भास्तम्भस्तत्र निवेश्यते तत्रापि स एवायमिति प्रत्ययो भवति, न चात्रानुवृत्ताकारः पारमार्थिकोऽस्ति, ततो भ्रान्त एवायमिति । सत्यमेवैतत् । किन्त्वेतदालम्बनेन परमार्थसन्ननुवृत्ताकारविषयोऽपि प्रत्ययो भ्रान्त इत्येतदसाधीयः, अतिप्रसङ्गस्योदितत्वात् ।
न चायमेकान्तक्षणिकेधूपपद्यते, अनुवृत्ताकारस्यापि भावात् । 15 न चायं सदृशापरापरोत्पत्तितः, एकोऽयमिति भावात् । अन्यथा सदृशोऽयमिति स्यात् ।
मैं चायमित्यनुवृत्तव्यावृत्ताकारः प्रत्ययः क्षणावस्थायिषु वस्तुषु सत्सूपपन्नो भवति, प्रत्ययेऽस्मिन्ननुवृत्ताकारस्यापि भावात् । क्षणमात्रावस्थायिवस्तुग्राही हि प्रत्ययो 83A व्यावृत्ताकार एव स्यात् । ने चायमिति अनुवृत्ताकारो ज्ञानगतः सदृशापरापरोत्पत्तितो 20
भवतीति वक्तुं शक्यम् , एकोऽयमिति भावात् , ज्ञानगतस्य ह्यनुवृत्ताकारस्यक एवायं विष्वपि कालेषु पदार्थ इत्येवमाविर्भावात् । अन्यथेति यदि वस्तुगतपारमार्थिकैकत्व निबन्धनो ज्ञानगतोऽनुवृत्ताकारो नेष्यते किन्तु सदृशापरापरक्षणोत्पादनिवन्धनस्तदा सदृशोऽयं विष्वपि कालेषु पदार्थो न पुनरेक इत्येवमनुगताकारो ज्ञानगतः स्यात् ।
१ नापि सर्वस्य सर्वधास्वलित: प्रत्ययो भ्रान्तः ॥ २ मृद्विवय. ॥ ३ प्रमाणोपपन्नम् ॥ ४ लून- 25 पुनर्जातकदलीस्तम्भादिप्रत्ययवत् ॥ ५ प्रस्तुतप्रत्ययः ।। ६ लूनपुनर्जातकदलीस्तम्भादिष्यपि वैकान्तानन्धयां नाशः ॥ ७ भ्रान्तप्रत्ययालम्बनेन ।। ८ न चाय मेकान्तक्षणिकेषूपपद्यते अनुवृत्ताकारस्यापि भावात्।।९न चायं सरशापरापरोत्पत्तितः॥ १० अन्यथा सरशोऽयमिति स्यात्।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org