________________
उत्पाद - व्यय - ध्रौव्यसाधनम् ।
प्रमाणेन भवानवभासे सति भावावभासिनैव भवितव्यम् । अन्यथा हि निर्विषयतया प्रामाण्यमपजेह्यात्, भावाभावाभ्यां रहितस्य विषयस्यैवाभावात् । तस्मात् प्रतिसमयं निरन्वयनाशाभावोऽन्वयः । स च विषयवत्तया प्रामाण्यस्य व्यापनान्निरन्वयनाशानवभासिन प्रत्यक्षेण गृहीत एव, घटाभावाविषयत्वे घटविपयताया घटप्रत्यक्षस्याऽयन्नसिद्धत्वात् ।
१८९
अथवा कृतं कुटिलभणितिभिः, अकुटिलमेवाभिधीयते । घट एवान्वयांशः, मृद्द्रव्यरूपत्वात् । पर्यायानुगन्तुतया द्रव्यं ह्यन्वयांशः । तथा घट एव व्यावृत्तांशः, -31A पर्यायरूपत्वात् । अननुगन्तृतया पर्याया एव हि व्यावृत्तांशः । एवं च घटग्रहणपरिणामत्रता प्रत्यक्षेणान्वयांशो व्यावृत्तांशश्च गृहीत एव, तैयोर्घटस्वरूपानतिरिक्तत्वात्,
ग्रहणे च पूर्वकालसम्बन्धविगम उत्तरकालसम्बन्धयोग्यता च गृहीता, तयोस्तंत्र 10 सम्भवात् । उभयकालसम्बद्धता पुनर्द्रव्यरूपस्यान्त्रयस्य पर्यायान्तरवत् स्वगतो धर्मः, द्रव्यस्यान्वयित्वेनोभयकालसम्बन्धितासम्भवात् । न चाखिलधर्माग्रहणे छत्रस्थज्ञानानां धर्मिणो विषया न भवन्ति । ततो यदि नाम प्रत्यक्षं वस्तु गृहत् त्रिकालसम्बद्धताव31B भासं न भवति तथाऽप्युक्तनीत्याऽन्वयांशविषयता न विरुध्यते ।
पुनरप्याह - " न रूपविशेषाविष्करणमन्तरेणास्ति प्रत्यक्षं किञ्चित् । ततः क 15 आकारोऽन्वयस्यावभासत इति निवेद्यताम् ।" [ ] [त् किमाकारावभास्येव प्रत्यक्षम् ? 'ओमिति चेत्, तर्हि स्पर्श-रस- गन्ध-शब्दानां किमाकारं प्रत्यक्षमिति भवानेव निवेदयतु । तस्मादाकारासम्भवाद्विषयग्रहणपरिणाम एव ज्ञानानां सर्वत्र विषयाकारः । स चान्वयग्राहिप्रत्यक्षस्याप्यस्ति । ततो यदुच्यते - "तेन प्रत्यक्षव्यापारेण नित्यताव्यवस्थापनम् किन्तु प्रतिभज्ञानादेव" [ ] इति, तदपाक्रियतेति 20 यत् किञ्चिदेतदित्युपरम्यते ।
Jain Education International 2010_05
5
तदेवमनुवृत्तांशस्य प्रत्यक्ष सिद्धत्वमुपपाद्य व्यावृत्तांशस्यापि प्रतिपादयतिचेति । एकेाऽनुवृत्तांशग्राहिण्येव, आकारभेदसंवेदनात् । मृदेकत्वेऽपि स्थासस्यान्य 1820 आकारो वेद्यते कोशादेवान्यः ।
नन्वयमनुवृत्तव्यावृत्तवस्तुग्राहिप्रत्ययो भ्रान्त एव सर्वभावानां स्वस्वभावाव- 25
१ निरन्वयनाशानवभास इत्यर्थः || २ प्रत्यक्षम् || ३ व्यापिकया || ४ यतः प्रत्यक्षस्य न घटाभावो विषय इति || ५ अनुवृत्तव्यावृत्तांशयोः || ६ अनुवृत्तव्यावृत्तांशात्मक घटवस्तुग्रहणे ॥ ७ अनुवृत्तव्यावृत्तांशात्मके वस्तुनि ॥ ८ न च वाच्यं प्रत्यक्षेण उभयकालसम्बन्वाग्रहणे धर्मिणोऽग्रहणम् ॥ ९ शङ्करः ॥ १० आ[चार्यः ] || २१ शङ्करः || १२ तदित्युपसंहारे बौद्धोक्तरेव || १३ प्रातिभज्ञानं चाप्रमाणं बौद्धस्य || १४ न च मृरेकत्वेऽपि स्वास- कोशादीनामेकैव संवित्तिः ॥
30
For Private & Personal Use Only
www.jainelibrary.org