________________
तदेवं निरन्धयनाशित्वमपनीय सान्वयनाशित्वसिद्धौ प्रत्यक्षमुपन्यस्यति
सान्वयनाशित्वं चानुवृत्तव्यावृत्तवस्तुग्रहणपरिणामप्रत्यक्षसिद्धम् । न हि भेदाविशेषेऽपि घट-पटादिष्विव स्थास-कोशादिषु विलक्षणेव प्रतिपत्तिः, मृदेकत्वसंवेदनात् । न च मृदेकत्वेऽपि स्थास-कोशादीनामेकैव संवित्तिः, आकारभेदसंवेदनात् । नापि 5 सर्वस्य सर्वत्रास्खलितः प्रत्ययो भ्रान्तः । लुनपुनर्जातकदलोस्तम्भादिष्वपि नेकान्तानन्वयो नाशः ।
सान्वयनाशित्वं चेति । अनुवृत्तं द्रव्यापेक्षया व्यावृत्तं पर्यायापेक्षया यद्वस्तु तद्ग्रहण79B परिणामवता प्रत्यक्षेण सिद्धं सान्वयनाशित्वं भावानाम् , यदेव वस्तुनोऽनुवृत्तव्या
वृत्तत्वं तदेव सान्वयनाशित्वम् । तच्च प्रत्यक्षप्रसिद्धमेव । एतदेव द्रढयति-न हीति । घटपटादिष्विति वैधय॑म् ।वि लैक्षणैव व्यावृत्तत्वग्रहणपरिणामैव प्रतीतिः। मृदेकत्वसंवेदनात् , 10 स्थास-कोश-कुमूलादिषु हि व्यावृत्तांशवदनुवृत्तांशोऽपि मृदूपः प्रत्यक्षतः संवेद्यते ।
शङ्करनन्दनस्त्वाह
"यथाविधोऽन्वयस्तथैवावगमोऽवगच्छंस्तद्वयवस्थानिमित्तं स्यात् । अन्वयश्चाविनाशो नित्यत्वमनेककालसम्बद्धता वाऽभिधीयते । न च तथा प्रत्यक्षेण ग्रहणं 15 80 सम्भवति । एवं हि सम्भवेत् यदि प्रत्यक्षं वस्तु गृहत् कालत्रयसम्बन्धितावभासं
स्यात् । तब नास्ति, इन्द्रियापेक्षितया प्रत्यक्षेण वर्तमानकालसहभावित्वमात्रस्य ग्रहणात्, इन्द्रियस्य हि भूतभविष्यतोः सम्बन्धानहत्वात् । तदाह
"नार्थाभेदोऽपरं रूपं रूपात् कालद्वयानुगात् ।
तस्य नानुभवात् सिद्धिवर्तमानार्थसंश्रयात् ॥" [ ] इति । 20 तंत्रायं तावदतिप्रमेयरचनाकुशलोऽपि प्रतिवचनमेकमावाभ्यों ददता-निरन्वयनाशावभासि प्रत्यक्षं केनाप्यनुभूयते वा न वा । आये सकललोकानुभवै रेव प्रति
घातः । द्वैतीयीके पुनरन्वयस्य प्रत्यक्षत्वमप्रयासमाविरास । निरन्वयनाशो ह्यन्वयस्था80B भावः । 'तेदवभासि चेत् प्रत्यक्षं नाजनिष्ट, शिष्टसिद्ध तर्हि भावरूपान्वयौवभासि ।
१ सान्धयनाशित्वं चानुवृत्तव्यावृत्तवस्तुग्रहणपरिणामप्रत्यक्षसिद्धम् ॥ २ न हि भेदा- 25 विशेषेऽपि घटपटादिष्विव स्थास-काशादिषु विलक्षणव प्रतिपत्तिः ॥ ३ ज्ञानम् ॥ ४ एते त्रयः पर्यायाः ॥ ५ रूपयेण ॥ ६ अर्थाभेदो नित्यल्वमन्वयः ।। ७ प्रत्यक्षात् ॥ ८ अनुभवस्य । ९ उत्तवाक्यमिदम् ॥ १० ४' [-चतुर्यन्तम् ] ॥ ११ निरन्वयनाशापभासि ॥ १२ सत्ता ॥ १३
सत्तारूपोऽन्वयः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org