________________
उत्पाद-व्यय-ध्रौव्यसाधनम् ।
१८७
अत्राहस्वहेतुभ्यस्तत्तद्धेतुयोगतस्तथा तथा परिणामिनो भावाः ।
स्वहेतुभ्य इति मृत्पिण्ड-चक्र-चीवरादिसामग्रीभ्यस्तस्य तस्य विचित्ररूपद्रव्यक्षेत्र-भाव-मुद्रादिहेतोः सम्बन्धेन यस्य यस्य रूपस्योत्पादका हेतवः सन्निधीयन्ते तेन तेन नवपुराणादिना कपालादिना च रूपेण परिणमनशीला भावा भवन्ति । 5 परिणामान्तरांशात्मक एव हि भावस्य विनाशः, परिणामान्तरं च किश्चिन्नवपुराणादि
घटादिद्रव्येऽवस्थितेऽपि प्रतिसमयभाव्यन्यान्यद्रव्यादिहेतुसनिधानादपरापरं प्रतिसमय 788 मुपजायते, किश्चित्त कपालादि घटादिपर्यायोच्छेदात्मक प्रतिसमयानुपस्थायिमुद्रादि
हेतुसन्निधानात् कालपरिवासनोपजायते । नत्र परमार्थवेदिनां प्रतिसमयमपि घटादिद्रव्ये विनाशबुद्धिर्भवति, स्थूलदृशां पुनः कपालादिपर्यायोत्पादे सति । प्रतिक्षणं 10 हि सदृश-विसदृशाभिनवपर्यायोत्पादेन सर्वाण्यपि द्रव्याणि पर्यायरूपतया विनश्यन्त्येव, केवलमावरणक्षयोपशमतारतम्येन क्वचित् कदाचित् कस्यचिद्विनाशबुद्धिरुपजायते । एतदुक्तं भवति-नोच्यते स्वहेतुभ्यो भावाः प्रतिक्षणविनश्वरा जायन्ते नाप्यविनश्वरा नापि कियत्कालावस्थायिन इति । किन्त्वेतावदुच्यते-स्वहेतुभ्यो यथाहेतुसन्निधानं नवनवरूपैः परिणामशीला भावा भवन्ति । नवनवरूपैः परिणामश्च कारणान्वय- 15
व्यतिरेकानुविधायी प्रत्यक्षसिद्धः । तैदभिन्न एव च विनाशः । एवं च व्यवस्थापिते सति 79. विनाशस्य सहेतुकता वा भवतु निर्हेतुकता वा सर्वदाप्यभवनं वा, कि तेनावयोरिति ।
_____ अयं चात्र न्यायः-यदुत्तरसन्तानोत्पादकं तत्पूर्वसन्ताननिवर्तकम् , यदेवं न भवति तदुत्तरसन्तानोत्पादकमपि न भवात यथा घटः पटस्य, उत्तरसन्तानोत्पादक च विवादपदम् , उत्तरसन्तानोत्पादकत्वं च पूर्वसन्तानक्षणस्योत्तरक्षणाजनकत्वे [सति 20 विनाशोत्पादकत्वेन व्याप्तम् , तथा च पूर्वसन्ताननिवृत्तिस्तत्कृतैवेति ।
तन्न विनाशाहेतुकत्वपि निरन्वयनाशाय ।
तदित्युपसंहरति । हेतोाप्त्यभावादसिद्धत्याचेति कारणद्वयं पूर्वोपन्यस्तमेवात्र द्रष्टव्यम् । तस्मान्नैकान्तनित्या नाप्येकान्तक्षणिका भावा इति व्यवस्थितम् । । बहतुभ्यस्तत्तद्धतुयांगतस्तथा तथा परिणामिनो भावाः ॥ २ विलम्बेन ।। ३ उत्तरपर्याया- 25 भिन्नः ॥
५. मुद्रादि ॥ ६ कपालादिसन्तान ।। ७ घटादिसन्तान ।। ८ मद्रादि । ९ * अत्रेद बोध्यम्-'जनकत्वे x त्पादकत्वे
न व्याप्तम । तथा च' इत्येवं दक्षिणभागे बहिस्तात Margin मध्ये पउिक्तद्वयमध्ये लिखितमस्ति। - एतच्च चिह्नत्वे इत्यस्य पश्चाद उपरिभागे लिखितमस्ति ।
एतच्चिद्रं पाठयूरणाय हस्तलिखितादर्शषु लिख्यते । किन्तु ग्रन्थकारण कुतोऽप्यनवधानादिकारणेन पाठः 30 परितो न विलोक्यते । अतोऽस्माभिः कल्पनया कश्चित् पाठं पूरयित्वा ईदृशः पाठोऽत्र लिखितः। जनकत्वेन व्याप्तम इत्यपि पाठेन कार्य तु सिध्यति ।। १०तन विनाशाहेतुकत्वमपि निरन्वयनाशाय ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org