________________
१८६
स्वोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे अपेक्षितेति । विसभागक्षणो विजातीयसन्तानोत्पादः। आदिशब्दादायुस्त्रुटि76B लक्षणमरणस्य चन्द्रादेरुदितस्यास्तमयस्य च ग्रहः । घटादीनां हि विजातीयसन्तानो
त्पादः सर्वभावानां द्रव्यांद्यपेक्षोत्पादत्वात्विन्तरापेक्षोऽपि नियतो दृष्टः । एवमायुषः क्षयोऽपि । ननु यः कपालादिक्षणो घटाद्यवस्थायामम्त्येव न, स कथं सापेक्षो भण्यते ? सत एव हि क्वचिदपेक्षा नासत इति । एवं तर्हि विनाशम्यापि 5 हेत्वन्तरापेक्षत्वेनानि वश्यंभाविता प्रसअयितुं न युक्ता, कैपालांशस्यैव विनाशलात् तम्य च घटावस्थायामभावात् । अथ चासौ हेत्वन्तरापेक्षत्वेनाऽनवश्यम्भावी प्रसभितः, यदुक्तं "न ध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणात्"
[ ] इति । अपि च वाससि रागं दृष्टान्तयताऽविद्यमानस्याप्यपेक्षानु77A ज्ञातैव । तम्माद् धर्मकीर्ति-धर्मोत्तरयोरेवंपरमेव वचो यथा “यो धर्मिणो धर्मों 10
धमिहेतुव्यतिरेकिणा हेत्वन्तरेण क्रियते स नावश्यम्भावी यथा वाससि रागः, विनाशोऽपि यदि तथा स्यात् सोऽपि ध्रुवं न स्यादिति न व्यतिरिक्तहेतुकृतोऽसौ” [ ] इति, तेच व्यभिचरति, घटस्य पुरुषम्य च धर्मिणः स्वहेतुव्यतिरिक्तहेतुकृतयोरपि कपाल-मरगयोरवश्यंभावदर्शनात् । विनाशानपेक्षत्वासिद्धौ च प्रमाणार्थोपदर्शनप्रयासोऽपि धर्मोत्तरस्य निष्फल एव । तस्मादनवश्यंभाव- 15
प्रसअनेनापि विनाशस्याहेतुत्वं न सिध्यति । 778 धर्मोत्तरस्त्वाह-"किं तस्य सतो भावस्य निवृत्तिधर्मा स्वभावः स्वहेतुभ्यो
निष्पन्न अहोश्विदनिवृत्तिधर्मा । यदि पूर्वः पक्षः, निवृत्तिधर्मतया स्वयमेव निवर्त्तत । न च विनाशहेतुसापेक्षनिवृत्तिक एव हेतुभिर्जनित इति वक्तं युक्तम् । तथाहि-यावद्विनाशहेतुसन्निधिकालस्तावत् स्थितिधर्मा भावः, अस्थितिधर्मत्वे प्रागेव 20 निवृत्तिप्रसङ्गात् । विनाशहेतुसनिधिकाले च स एव कियकालावस्थायी स्वभावो
यः प्रथमे क्षणे आसीत् , ततो नैव निवर्तत कियत्कालावस्थायित्वात् । तस्मान्न 78A विनाशहेतुसापेक्षनिवृत्तिकः कश्चिद्भावो हेतुभिर्जन्यते । अथानिवृत्तिधर्मा तम्य
स्वभावस्तर्हि विनाशहेतुभिरपि न निवर्तयितुं शक्येत" [प्रमाणविनिश्चयीका पृ० २८९] इति ।
25
१ अपेक्षितहेतयोऽपि विसभागक्षणादयोऽवश्यम्भाविनः ॥ २ कपालक्षणः ॥ ३ क्षेत्रभावमुद्गरादि ।। ४ मसिद्धन ॥ ५ जन प्रति बौद्धस्य ॥ ६ विनाशस्यासत्त्वं कथयति ।। ७ उत्पन्नस्यापि ॥ ८ यथा वाससि राग इति दृष्टान्त उपात्तोऽस्ति तेंव ग्रन्थकृता ॥ ९ कारणानि ।। १० आचार्यः ।। ११ प्यक्षणिकसाधन । * अत्र ‘प्य इति आद्यपाठोऽधिको निरर्थकश्च प्रतिभाति ॥ १२ * दृश्यतां पृ० १८५५० १७ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org