________________
उत्पाद - व्यय - ध्रौव्यसाधनम |
१८५
तत्र स्वरूपसत्त्वानुवेधानर्पणेन यत्र पररूपासत्त्वमात्रं विवक्ष्यते यथा घटः पटात्मको न भवति तत्र प्रसज्यनञोऽधसरः । अविवक्षितसवांशा भेदपेररूपीसत्त्वं प्रसज्यनञोऽर्थ इति भावः ।
ननु पररूपाभावोsपि भवतां मतेन न तुच्छरूपः, सर्वत्र भावांशस्यैवा75B भावरूपत्वात् । ततस्तद्विवक्षायामपि विधेरेव प्राधान्यमिति । एवं मन्यते - पररूपा - 5 भावोऽपि विवक्षितस्वरूपसच्चाभेदों भाव एव, किन्तु स्वैरूपसत्त्वाभेदो न विवक्षितस्ततोऽसौ तुच्छरूपो जातः । ततः कुतो विधेः प्राधान्यम् ? अत एवानर्पितसदनुवेधः इत्युक्तम् । ततोऽर्पिर्तसदनुवेधः पररूपनिषेधः पर्युदासस्य नञोऽर्थः, अनर्पितसदनुवेधस्तु प्रसज्यनञ इति विषयविभागः सिद्धः । तस्मादुत्तरपर्यायांश एव भावानां विनाशः । स च स्वकारणान्वयव्यतिरेकानुविधायित्वेन सहेतुकः सिद्धः । अत्र कीर्तिर्विनाशाहेतुत्वसाधनायोपन्यस्यति
10
76A
२४
"सापेक्षाणां हि भावानां नावश्यंभावितेक्ष्यते ।
निरपेक्षो भावो विनाशे । सापेक्षत्वे हि घटादीनां केषाञ्चिन्नित्यतापि स्यात् । यद्यपि बहुलं विनाशकारणानि सन्ति । तेषामपि स्वप्रत्ययाधीनसन्निधित्वानावश्यं सन्निधानमिति कश्चिन्न विनश्येदपि । न ह्यवश्यं हेतेवः फलवन्तः, वैकल्य - प्रतिबन्धं- 15 सम्भवात्" [प्रमाणवार्तिकस्ववृत्तिः पृ० ६५, प्रमाणविनिश्वयः पृ० २७६ A] इति । "अयं च प्रमाणार्थी दर्शितः - 'यो 'यैद्भावं प्रत्यनपेक्षः सें तद्भावनियतें :, यदि " निरपेक्षोऽपि भावः कालदेशा [ 'वैस्था]न्तरापेक्षया विनश्येत्तदा देशकालावस्थान्तरापेक्षत्वान्निरपेक्षो न स्यात् । ततश्च यद्येकमपि क्षणं तिष्ठेत् कालान्तरापेक्षया निरपेक्षत्वं बाध्येत । तस्मात् क्षणमात्रावस्थानेऽपि सापेक्षत्वसम्भवान्निरपेक्षत्वं 20 विरुद्बोपलब्ध्या विपॆक्षाद् व्यावर्त्यते" [ प्रमाणविनिश्चयटीका पृ० २९० B - २९१A]।
१५
अत्राह
अपेक्षितहेतवोऽपि विसभागक्षणादयोऽवश्यम्भाविनः ।
१ पट | २ पररूपस्य पटादेः || ३ उत्तरमाह ॥ सन् ।। ५ पटस्य ।। ६ आरोपितवस्तुस्वरूप ॥ ७ * ' धर्माणाम् ' इति प्रमाणविनिश्चये पाठः || ८ अत्र द्वयक्षरं व्यक्षरं वा किञ्चित् टिप्पणं 25 सूक्ष्माक्षरैर्लिखितं वर्तते, किन्तु तत् सम्यक् पठितुं न शक्यते । 'उत्पित्स' (?) 'उत्पाद्ये' (?) इति वा किञ्चिलिखितं भाति ॥ ९ कारणानि || १० ओस् [= विग्रहे षष्ठीद्विवचनान्तम् ] ॥ ११ पदार्थः । १२ विनाशभावम् ॥ १३ विनाश | १४ विवादपदः पदार्थोऽवश्यंभावविनाशे नियतो विनाशं प्रति अनपेक्षकारणत्वात् ॥ १५ हेतोरनैकान्तिकमुद्भावयति । १६ भोट[ = Tibetan ] भाषानुवादमध्येऽयं पाठः ॥ स्वोपलब्ध्या ।। १८ तद्भावानियतत्वात् ॥
१७ सापेक्ष
Jain Education International 2010_05
For Private & Personal Use Only
30
www.jainelibrary.org