________________
उत्पाद-व्यय-ध्रौव्यसाधनम् । स्यान्मतिः-न कथञ्चिदभेदाभावप्रयुक्त आलोकस्योपादानताविरहः, किं तर्हि ? उपादानलक्षणयोगाभावप्रयुक्तः। लक्षणं चेदम्-"जनकैराधेयातिशयस्य कार्यस्य समस्तविशेषकोडीकरणसमर्थ आत्मा यस्मादुत्पद्यते तदुपादानम् । यथा चक्षुरादिभ्यश्चक्षु
विज्ञानस्य समस्तोपकारमयं बोधरूपत्वं समनन्तरप्रत्ययादुत्पन्न मिति तदुपादानम्" 868 [ ] इति ।
अत्राप्युच्यते-उपादानलक्षणयोगविरहमप्यालोकस्य कथञ्चिदभेदाभावादेवावगच्छामः। अन्यथा तुल्येऽपि कारणत्वे किमिति समस्तविशेषक्रोडीकरणसमर्थ आत्मा कार्यस्य विवक्षितक्षणादेव भवति. नान्यस्मात् ?
एवं चानेनोऽप्युपादानलक्षणेन न दोष:-"अवस्थाभेदेऽपि यदेकाकारपरा१ ज्ञान प्रति ।। २ हेतुभिः ॥ ३ उत्पादितातिशयस्य ॥ ४ विषयपरिच्छेदतुल्याकारतादयो विशेषाः ॥ 10 ५ जनकेभ्यः ।। ६ आधेयातिशयस्य जायमानस्येति शेषः ॥ ७ विषयाद् विषयाकारता, इन्द्रियात् तद्ग्रहणपरिणामतादि ॥ ८ इन्द्रियादीनाम् ॥ ९ बोधरूपतास्वभावः ॥ १० पूर्वलक्षणम् अर्चटकृतम् , इदं तु अन्येन ग्रन्थकृता कृतम् ॥ * अत्रेदं बोध्यम्- अब टिप्पणकर्तुः किञ्चिदनवधान संजातमिति प्रतीयते । वस्तुत: 'पूर्वलक्षणमन्येन ग्रन्थकृता कृतम् , इद तु अचंटेन कृतम् इति टिप्पणं समीचीनं भाति अत्र । यत इदं लक्षणम् अर्घटकृतायां हेतुबिन्दुटीकायामुपलभ्यते, पूर्वलक्षणं तु हेतुबिन्दुटीकायां 15 नोपलभ्यते । हेतुबिन्दुटीकायामीदृशोऽत्र पाठ:
"नन्वेकस्याः सामग्रया अनेकस्य भावे सामग्रयन्तरजन्येभ्यो भवतु मेदः, परस्परतस्तु कथम् ? । तदतद्रूपहेतुजवादि भावास्तदतदपिण इष्यन्ते । तत्र यदा चक्ष-रूप-मनस्कारेभ्यो विज्ञानजन्म तदा चक्षरूपक्षणयोरपि भावाद् विज्ञानेनाभिन्नजत्वात् तयोविज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत ! । आह च"तदतपिणो भावास्तदतपहेतुजाः । ।
20 तद्रूपादि किमशानं विज्ञानाभिन्नहेतु जम् ।।" [प्रमाणवा. २.२५१] इति । नैष दोषः । तेषां यथास्वं स्वभावमेदेन निमित्तोपादानतया तदुपयोगात् । मनस्कारो हि विज्ञानस्योपादानकारणम् । चक्षुषस्तु स्वविशनजननयोग्यस्य जन्मनि सहकारिकारणम् । एवमितरत्रापि यथायोगं वाच्यम् । ततोऽन्याहशी सामग्री चक्षुःक्षणस्य जानका, अन्यादृशी य विज्ञानादेरिति तद्वलक्षण्यादेव कार्याणां वलक्षण्यम् ।
____ स्यादेतत्-सर्वेषामन्वयव्यतिरेकावनुविधीयते तदा चक्षुरादिक्षणरिति कुतोऽयं भेदः- इहोपादानभावेनेदमुपयुज्यते, अन्यत्र तु सहकारिभावेनेति ।। बोधरूपतादेरनुकाराननुकाराभ्यां तद्भावे न्यभिचाराव्यभिचारतश्र । तथाहि-विज्ञानं मनस्कारस्य बोधरूपतामनुकरोति, न चक्षुरादे डादिभावम् । एवमन्यदपि प्रत्येयम् । नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः । चक्षुःक्षणान्तरोदये च पूर्वभाविनश्चक्षुषो न स्वविज्ञानयोग्यताहेतोः समनन्तरप्रत्ययस्य । एवं रूपस्यापि वाच्यम् । तस्माद- 30 वस्थाभेदेऽपि यद् एकाकारपरामर्ष (श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तद् उपादानकारणम् । यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिवन्धनं तत् सहकारिकारणम्। सा चेयं भावानां स्वहेतुपरम्परायाता प्रकृति र्यया किञ्चित् कार्य स्वसन्तानव्यवस्थानिबन्धनं जनय
25
२५
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org