________________
१९४
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे
मप्रत्ययेन्धनतया स्वसन्ततिपतित कार्यप्रमूतिनिमित्तं तदुपादानकारणम्" [हेतुविन्दुका ०९५] इति । येतो यद्येकः परामर्श एकत्वबुद्धिस्तदा सा कथञ्चिदेकत्वनान्तरीयकैव । अथ सदृशस्तादृशो वा प्रत्ययः, सोऽसिद्ध एव, पूर्वोत्तरक्षणयोरेकत्वसंवेदनेन सदृशादिप्रत्ययस्यासंवेदनात् । न खलु बहुषु घटेष्विव तयोः सदृश874 बुद्धिरुन्मीलति । तस्मादनुमानतोऽपि सान्वयनाशित्वं भावेषु प्रसिध्यति । तदनुभवसिद्धोत्पाद-व्यय- ध्रौव्यसमुदयः कायः । विरोधः, असम्भवात् । तथैव प्रमाणभावाच्च । प्रमाणानुपपत्तिर्हि विरोधलक्ष्म ।
न चैवं
तैदित्युपसंहरति । अनुभवः प्रत्यक्षम् । एतावता चोत्पादव्ययधौव्यात्मकत्वं सतो लक्षणमुक्तम्। नँ चैवमिति, नैवैवमेककालमेकत्रोत्पादव्ययधौव्याणि विरुध्यन्ते, 10 असम्भवाद् विरोधस्याघटनात् । वस्तूनां विरोधो हि परस्पराभावरूपत्वं वा स्वरूप सत्त्वासत्त्ववत्, परस्पराभावापादकत्वं वा शीतोष्णस्पर्शवत् परस्पराभाववत्त्वं वा दण्डित्वकुण्डलित्ववदिति त्रयी गतिः । तत्र नादिमस्य सम्भवः, एकान्तनित्यत्वानित्यत्वयोरेव तेद्रूपत्वात् । कथञ्चिन्नित्यत्वानित्यत्वयोश्चाभ्युपगमात् तयोश्च परस्पराभावरूपत्वाभावात् । अन्यथा कथञ्चिन्वव्याघातः । 87B यदि हि कथञ्चिनित्यत्वस्य कथञ्चिदनित्यत्वमभावः स्यात् तदा कथञ्चिनित्यत्वं सर्वत्र सर्वदा सर्वथा तत्परिहारेणावतिष्ठेत । न हि भावः स्वभावेन सह कचिदपि कदाचिदपि लेशतोऽपि सम्भवति । एवं च कथञ्चिमित्यत्वस्य कथञ्चित्त्वं व्याहन्येत, सर्वथाप्यनित्यत्वासम्भवेन सर्वथा नित्यत्वस्य भावात्, सर्वथाप्यपरित्यक्ता
9
Jain Education International 2010_05
5
नयपरं च सन्तानान्तरव्यपदेश निबन्धनमिति । तस्था एवं सामग्रया अवान्तर विशेषकृतत्वाच्चक्षू रूप-विज्ञानक्षणानां 20 परस्परतो वैलक्षण्यं न विरुध्यते ।" इति हेतुबिन्दुटीकायां पृ० ९४-९५ ॥
११ वक्ष्यमाणेन ॥। १२ पूर्व घटज्ञानं पश्चात् परज्ञानमित्येवमवस्थाभेदेऽपि परं सर्वत्र 'ज्ञानं ज्ञानम्' इति प्रत्यय एको यस्मादुपजायते तदुपादानम्, तत्प्राचीनो ज्ञानक्षण एव ॥ १३ " उक्तयोर्लक्षणयोराद्यं लक्षणं दुर्बोधादुपसंहारव्याजेन स्पष्टयन्नाह तस्मादिति । स्वसन्ततिव्यवस्थैव कुतो येन त्पतित कार्यप्रसूतिनिमित्तं ज्ञातव्यमित्यपेक्षायां योज्यं यदेकाका रेति" इति पण्डित दुर्वेक मिश्रविरचिते हेतु बिन्दुटी कालोकं पृ० ३३३ ॥ 25 १ ज्ञान || २'६' [ = विग्रहे षष्ठयन्तम् ] || ३ त्रिस ॥ * अत्र त्रिसमासः = तृतीयः समासः, तत्पुरुष इत्यर्थो विवक्षितो भाति ॥ ४ आचार्यः ] ॥ ५ अत्र विकल्पद्रयम्- किमेकः परामर्श एकरवबुद्धिरुच्यते, किं वा सदृशस्तादृशो वेति ॥ ६ तदनुभवसिद्धांत्पादव्ययध्रोव्यसमुदयः कायः ॥ ७ न चैषं विरोधः ॥ ८ स्वरूपसत्त्वमसत्त्वाभावरूपम् || ९ परस्पराभावरूपविरोधरूपत्वात् ॥ १० कथञ्चिदनित्यत्वपरिहारेण ॥ ११ पदार्थ: ।। १२ स्वरूप सत्त्वेन || १३ ननु कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वपरिहारेण स्थास्यति को दोष 30 इत्याशङ्कयाह- एवमिति ।
For Private & Personal Use Only
15
www.jainelibrary.org