Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 240
________________ उत्पाद-व्यय-ध्रौव्यसाधनम् । १७५ यतश्च कथञ्चिदेव सत्वं साध्यते न सर्वथा तेन यदुक्तं परेण-"यो हि यदूपो नोपलभ्यते न स तदूपो यथा सुख दुःखरूपेणानुपलभ्यमानं न तद्रूपम् , तथा च दषिरूपेण नोपलभ्यते क्षीरमिति न तद्रूपम् । सत्वं हि तादृशस्य दृश्यस्योपलभ्यतया व्याप्तं सन्मात्रनिमित्तत्वादुपलम्भस्य, उपलम्भाभावाच व्याप्यस्यापि सत्त्वस्य निवृत्तिः । इतररूपोलम्भेश्च तद्रूपानुपलभः" [ ] इति, तदपि प्रत्युक्तं गोरसत्वरूपेणैव 5 परिणामिनि दनः सत्त्वाभ्युपगमात् , न दधिरूपेण । तदनुपलम्भस्य चासिद्धत्वात् । ततो यदि क्षीरस्य दध्नो यद्विशेषरूपं दधित्वं तनिषिध्यते तदा सिद्धसाधनम् । अथ सोमान्यरूपं तदा हेत्वें सिद्धिः । 12 तथेदमपि प्रत्युक्तम्-“अथ केयं शक्तिः किं स एव भाव उतान्यदेव किंश्चित् । स एव चेत् तथैवोपलभ्येत, विशेषाभावात् । अन्यञ्चेत् , कथमन्यभावे 10 नदस्ति । उपचारमात्रं तु स्यात् । एतेन पेरत्र भावः प्रत्युक्तः" [ ] इति । तस्मात्र निरुपाख्यस्य जन्माभिसम्बन्धो घटत इति स्थितम । ननु पर्याया असन्तोऽपि प्रतिनियतरूपा एव प्रतिनियतादेव हेतोरुत्पद्यन्ते । कारणान्यप्यवध्यभावेऽपि प्रतिनियतोत्पादशक्तीन्येव दृश्यन्ते । तत् कथमसत्कार्यवादे as रूप-हेतुनियमः कारणशक्तिनियमश्च नोपपद्यत इति । उच्यते-पर्यायेति । नासन्तः 15 पर्याया उत्पद्यन्ते, द्रव्यस्यावधेः सचात् । द्रव्यपर्यायाणां हि परम्परं भेदाभेदौ । ततो 'द्रव्याभेदार्पणायां पर्याया अपि स्यात् सन्तः, द्रव्यस्य सन्चात् । 'पर्यायामेदार्पणायां च द्रव्यमपि स्यादसत् , पर्यायाणामसत्त्वात् । एवं च न पर्याया असन्त एव, नापि द्रव्यं सदेव, कि तूभयं स्यात् सदसत् । ततो यदि द्रव्यरूपतया सन्तः पर्याया रूप-हेतु नियममुपयच्छन्ते तदा को विरोधः, सर्वथाप्यसत एव रूप-हेतु- 20 नियमाघटनात् । ___ तन्न निरन्वयनाशिनः कार्योत्पत्तिः । कार्यकारणभावावगमो. ऽप्येवं न स्यात्, अन्वयिनो ग्राहकस्याभावात् प्रत्येकं स्व. १ कार्यस्थ शक्तिरूपतया कारणे सत्त्व साध्यते, न व्यक्तिरूपतया ॥ २ दुःख ॥ ७ आलोकादिसामग्रीयुक्तस्य ॥ ४ पिशाचादिव्य[वच्छेदः] || ५ कारणोपलम्भः।। ६ मृद्रपोपलम्भश्चाभूत् , घटोपलम्भश्च नाभूदिति स नास्तीति ॥ 25 ७ द्रव्ये क्षीरे ।। ८ गोरसच ॥९ गोरसत्वम् ॥ १० अनुपलम्भादिति लक्षणो हेतुः ॥ ११ परिणामिनि दुग्धादौ दध्यादि शक्तिरूपायास्तीति आशङ्कयोच्यते ।। १२ दयादि ।। १३ दध्यादिरूपतया ॥ १४ '६' [=षष्ठयन्तं विग्रहे ] ।। १५ दध्यादि । १६ शक्रया दध्यादेर्जननाद् दध्यादिक शक्तिशन्देन व्यपदिश्यते ॥ १७ यथा कारणे कार्यसद्भावः तथा कार्य कारणसद्भाय इत्यर्थः ॥ १८ पर्यायान्पत्तद्रव्यं सदधधेः ।। १९ द्रव्येण सहाभेदविवक्षायाम् ।। २० कश्चित् ।। २१ पर्यायेण सहाभेदविवश्वायाम् ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318