Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 244
________________ १७९ उत्पाद-व्यय-ध्रौव्यसाधनम् । वस्तु निरंशम् , हेतु-प्रत्ययत्वे च वस्तुसती धौं, ते चांशरूपे सकलांशवियुक्तस्य कस्य 67A कथं स्याताम् , धर्मिणोऽनेकत्वस्य सांशत्वस्य चै प्रसङ्गात् ।। नोपादान-सहकारिते धर्मरूपे, किं तर्हि ? शक्तिरूपे । न च शक्तयो भावानां निवार्यन्ते, वस्तुनोऽनेकशक्तिरूपत्वादिति चेत् । एवं तर्हि भावस्वरूपानेकत्वमस्तु, अनेकशक्तिभ्योऽमेदात् , अनेकशक्तिस्वरूपवत् । अथैवं नेष्यते तर्हि शक्तीनामेकत्वमस्तु, 5 एकस्माद् भावस्वरूपादभेदात् , भावस्वरूपवत् । एवं चैकरूपोद्भवस्यानेकस्याप्येकरूपत्वप्रसङ्गः । एतावत्तु वक्तुमवशिष्यते परस्य-विजातीयानेककार्यजनन एक एव हेतूनां स्व67B भावः, तथा चानेकांशाभावान्न निरंशत्वव्याहतिरिति । अत्रापि विमृश्यते-तर्हि रूप-रस-गन्ध-स्पर्शपरमाणुजातीनां भेदमुररीकृत्यालम् , शक्यं हि वक्तुमेवम्-एकैच 10 रूपादिष्वन्यतमा परमाणुजाती रूपाद्याभासविजातीयानेकज्ञानजननस्वभावेति । बाह्यार्थापलापिनो रूपादिपरमाणुजातिभेदाभावप्रसङ्गो न दोषावह इति चेत् , तर्हि विवक्षितैककार्यकारिण्याः सामाया अन्तर्वतिनां समग्राणां परस्परमुत्तरक्षणजनने 68A उपादान-सहकारिभावाभ्यामवान्तरसामग्रीभेदो न स्यात् , सर्वेषां सामयन्तर्वतिहेतू नामनेकजनकैकस्वभावेन सर्वकार्येषु प्रवृत्तेः । तथा च सामग्रीभेदाभावात् कार्यक्षण- 15 भेदो न प्रामोति, तस्यैव तद्भेदनिमित्तत्वात् । तस्मादुपादान-सहकारिते वस्तुसती धौं । एवं च हेतूनां युगपदर्थक्रियाकारित्वं वस्तुसदुपादान-सहकारित्वधर्मद्वयाधिष्ठानेन व्याप्तम् । तच्च निरंशाद्वथावर्त्तमानं स्वं व्याप्यं युगपदर्थक्रियाकारित्वमपि निवर्तयतीति स्थितम् । ननु कार्यदर्शनकल्पिते हेतु-प्रत्ययत्वे न परमार्थसती, ततः सांशत्वप्रसङ्गोऽपि 20 न स्यादेवेति । तदयुक्तम् । यस्मादवेस्तुत्वे"हेतु-प्रत्ययत्वयोरङ्गीकृते तदवस्थः प्रसङ्गः एकरूपोद्भवस्यैकरूपत्वादिति य उक्तः । तस्मानिरन्वयनाशवोदेशपि निरंशत्वेन वस्तूनां युगपत् कर्तत्वं नोपपद्यते । "सम्प्रति क्रमकर्तृत्वाभावमाह एकस्य भिन्नकालाद्यपेक्षया कर्तृत्वं क्रमः । सोऽपि वर्त- 25 मानकालावस्थायित्वात् तत्त्वतः सन्तानस्याभावाच्च न स्यात् । १ परमार्थसती ॥ २ तव ॥ ३ बौ[दः ॥ ४ निषेधः ॥ ५ प्रतिभास ॥ ६ शून्यवा[दिनः] ॥ ७ ज्ञानानाम् ॥ ८ योगिज्ञानानि हि ज्ञानान्तराणि जानन्ति, परं तानि स्वसन्तान प्रति उपा सन्तानं प्रति सहकारिभावेन व्याप्रियन्ते ।। ९ अधस्तुत्वे तदवस्थः प्रसङ्गः।। १० '७' [सप्तम्यन्तम् ] ।। ११ न केवलं नित्यवादे ॥ १२ निरन्वयवादे ॥ 30 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318