________________
१७९
उत्पाद-व्यय-ध्रौव्यसाधनम् । वस्तु निरंशम् , हेतु-प्रत्ययत्वे च वस्तुसती धौं, ते चांशरूपे सकलांशवियुक्तस्य कस्य 67A कथं स्याताम् , धर्मिणोऽनेकत्वस्य सांशत्वस्य चै प्रसङ्गात् ।।
नोपादान-सहकारिते धर्मरूपे, किं तर्हि ? शक्तिरूपे । न च शक्तयो भावानां निवार्यन्ते, वस्तुनोऽनेकशक्तिरूपत्वादिति चेत् । एवं तर्हि भावस्वरूपानेकत्वमस्तु, अनेकशक्तिभ्योऽमेदात् , अनेकशक्तिस्वरूपवत् । अथैवं नेष्यते तर्हि शक्तीनामेकत्वमस्तु, 5 एकस्माद् भावस्वरूपादभेदात् , भावस्वरूपवत् । एवं चैकरूपोद्भवस्यानेकस्याप्येकरूपत्वप्रसङ्गः ।
एतावत्तु वक्तुमवशिष्यते परस्य-विजातीयानेककार्यजनन एक एव हेतूनां स्व67B भावः, तथा चानेकांशाभावान्न निरंशत्वव्याहतिरिति । अत्रापि विमृश्यते-तर्हि
रूप-रस-गन्ध-स्पर्शपरमाणुजातीनां भेदमुररीकृत्यालम् , शक्यं हि वक्तुमेवम्-एकैच 10 रूपादिष्वन्यतमा परमाणुजाती रूपाद्याभासविजातीयानेकज्ञानजननस्वभावेति । बाह्यार्थापलापिनो रूपादिपरमाणुजातिभेदाभावप्रसङ्गो न दोषावह इति चेत् , तर्हि
विवक्षितैककार्यकारिण्याः सामाया अन्तर्वतिनां समग्राणां परस्परमुत्तरक्षणजनने 68A उपादान-सहकारिभावाभ्यामवान्तरसामग्रीभेदो न स्यात् , सर्वेषां सामयन्तर्वतिहेतू
नामनेकजनकैकस्वभावेन सर्वकार्येषु प्रवृत्तेः । तथा च सामग्रीभेदाभावात् कार्यक्षण- 15 भेदो न प्रामोति, तस्यैव तद्भेदनिमित्तत्वात् । तस्मादुपादान-सहकारिते वस्तुसती धौं । एवं च हेतूनां युगपदर्थक्रियाकारित्वं वस्तुसदुपादान-सहकारित्वधर्मद्वयाधिष्ठानेन व्याप्तम् । तच्च निरंशाद्वथावर्त्तमानं स्वं व्याप्यं युगपदर्थक्रियाकारित्वमपि निवर्तयतीति स्थितम् ।
ननु कार्यदर्शनकल्पिते हेतु-प्रत्ययत्वे न परमार्थसती, ततः सांशत्वप्रसङ्गोऽपि 20 न स्यादेवेति । तदयुक्तम् । यस्मादवेस्तुत्वे"हेतु-प्रत्ययत्वयोरङ्गीकृते तदवस्थः प्रसङ्गः एकरूपोद्भवस्यैकरूपत्वादिति य उक्तः । तस्मानिरन्वयनाशवोदेशपि निरंशत्वेन वस्तूनां युगपत् कर्तत्वं नोपपद्यते ।
"सम्प्रति क्रमकर्तृत्वाभावमाह
एकस्य भिन्नकालाद्यपेक्षया कर्तृत्वं क्रमः । सोऽपि वर्त- 25 मानकालावस्थायित्वात् तत्त्वतः सन्तानस्याभावाच्च न स्यात् । १ परमार्थसती ॥ २ तव ॥ ३ बौ[दः ॥ ४ निषेधः ॥ ५ प्रतिभास ॥ ६ शून्यवा[दिनः] ॥ ७ ज्ञानानाम् ॥ ८ योगिज्ञानानि हि ज्ञानान्तराणि जानन्ति, परं तानि स्वसन्तान प्रति उपा सन्तानं प्रति सहकारिभावेन व्याप्रियन्ते ।। ९ अधस्तुत्वे तदवस्थः प्रसङ्गः।। १० '७' [सप्तम्यन्तम् ] ।। ११ न केवलं नित्यवादे ॥ १२ निरन्वयवादे ॥
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org