________________
१८०
स्थोपाटीकासाहिते द्रव्यालङ्कारे तृतीये प्रकाशे । 68B 'एकस्येति धर्मिरूपेणावस्थितस्य । आदिशब्दादवस्थादिग्रहः । सोऽपीति
क्रमो न स्यादिति सम्बन्धः । वर्तमानकाले उत्पत्तिकाल एवावस्थानशीलत्वाद्वस्तुनः परमार्थतः सन्तानस्याभावाच्च, अवस्थितस्यैव हि क्रममाविसहकार्याहितरूपविशेषस्य यः परिपाट्या क्रियासु व्यापारस्तत् क्रमकर्तृत्वम् , तदुत्पत्तिक्षणमात्र एवावस्थानशीलस्यात एव परमार्थसत्सन्तानाननुयायिनो न कथश्चिदपि घटते । तस्मानिरन्वयनाशे क्रम-5 कर्तृत्वमपि नोपपद्यते । तत् क्रम-योगपद्याभ्यामर्थक्रियामिच्छता कश्चिदन्वयोऽप्याश्रयणीयः ।
___ स्यान्मतम्-उत्पत्तिक्षणे घटद्रव्यस्य यः संवत्सरस्थितिस्वभावः स एव द्वितीया69A दिक्षणेष्वपि, उत्पत्तिक्षणावस्थायिन एव घटद्रव्यस्योत्तरक्षणेष्वपि कथञ्चिदन्वयात् ।
एवं च सति विनाशहेतुसन्निधानक्षणेऽपि संवत्सरस्थितिधर्मा घटस्ततः प्रथमक्षण इव 10 कथं स तदानीमपि विनाशमाविशेदिति । अत्राह
संवत्सरस्थितिस्वभावस्य समयाद्यतिक्रमात् स्यान्निवृत्तिः, संवत्सरस्यासमयादिरूपत्वात् । शेषस्यान्वयः ।
प्रथमक्षणे संवत्सरं स्थितिस्वभावो यस्तस्य समया[य]तिक्रमात् स्यात् कथञ्चिनिवृत्तिः आदिशब्दादावल्यादिग्रहः । प्रथमक्षण यः संवत्सरस्थितिस्वभावः स द्वितीये क्षणे 15 कथञ्चिन्निवर्त्तते, समयोनसंवत्सरस्थितिस्वभावस्य भावात् ।
स्यादेतत्-यदि स्तोकेनापि संवत्सरस्वभावप्रच्युतिरभूत्तदा कथञ्चिदपि संवत्सरा69B वस्थानं न प्रामोत्येव, संवत्सरस्थितिस्वभावस्य प्रथमक्षण एव निवृत्तत्वादिति ।
तन्न, संवत्सरस्योऽसमयादिरूपत्वात् , न हि संवत्सरः समया-ऽऽवलिका-मुहूर्तरूपो येन तदपगमेनाप्यपगच्छेत् । ततः संवत्सरस्थितिधर्मणो द्वितीयक्षणे समयातिक्रमेऽपि 20 संवत्सरावस्थितिर्न हीयते । अथवा भावः संवत्सरस्थितिधर्मा स्वहेतुभिर्जनित इत्ययं तावदस्मत्पक्षः । उच्छ्वसितमात्रेऽपि भावास्तपस्विनः स्वहेतुपरतन्त्रा इति च परोऽपि कृताअलिरनुमन्यते । यदि चायं संवत्सरान्तरमनुसन्दधीत तदा नित्यो भावः इत्ययं
पूर्वमेव पक्षः स्यात् , अनेकसंवत्सरस्थितिस्वभावस्य परोक्तनीत्योपस्थितत्वात् । तदनेन हेतुनिदेशमनुतिष्ठता यथाकथश्चिदपि संवत्सरान्ते विनंष्टव्यम् । तस्माद्यथा 25
१ पकस्य भिन्नकालाधपेक्षया कर्तृत्वं क्रमः ।। २ सोऽपि वर्तमानकालाय स्थायित्वात् तत्वतः ॥ सन्तानस्याभाषाच न स्यात् ॥ ३ ७' [=सप्तम्यन्तम् ] ॥ ४ संवत्सरस्थिति. स्वभावस्य समयावतिक्रमात् स्यानिवृत्तिः ॥ ५ . °स्य समया' इति मूलादर्श पाठः ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org