SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १८१ उत्पाद-व्यय-ध्रौव्यमाधनम् । 700 हेतुभिर्नश्वरात्मानो जनिताः प्रतिक्षणं नश्यन्ति तथा संवत्सरस्थितिधर्माणो जनिताः संवत्सरान्ते नश्यन्तु, को नाम दोषः । शेषस्येति समयावस्थितिस्वभावादिसमूहात्मकः संवत्सरस्थितिस्वभावः । ततोऽनेकस्वभावभेदात्मकसंवत्सरस्वभावम्य मध्याद्यावदपक्रामनि ततः शेषस्योत्तरक्षणेष्वनुगमो भवति यावत् संवत्सगन्त्यसमय इत्येवमन्वयसिद्धिः ।। विनाशाहेतुकत्वं प्रतिक्षणविकारितामुपनयेत् , न निरन्वयनाशिनम् , तत्राव्याप्तः । न च तत् सिद्धमपि, उत्तरपरिणामांशरूपत्वाद विनाशस्य । स च कारणान्वयव्यतिरेकानुविधायी सिद्धः । ___ स्यान्मतिः- प्रतिक्षणं निरन्वयनाशिनो भाषा विनाशहेतोरयोगादिति । तदपि न, यतो विनाशाहेतुकत्वं प्रतिक्षणविकारितामुपनयेत् , न निरन्वयनाशिनम् । यदि 10 हि नितुको विनाशस्तदा प्रतिक्षणं भावा विनश्यन्तीति सिध्यतु, ते तु सर्वथा निरन्वयनाशिन इति तु कथम् । तत्रेति सर्वथापि निरन्वयनाशितायामव्याप्तेविनाशा708 हेतुकत्वस्य हेतोर्व्याप्तेरयोगात् । निर्हेतुकश्च विनाशो भवेत् कथञ्चिदन्वयश्च, को विरोधः । अन्तेऽप्ययं गत्वा भावो यदि विनश्यति तदा प्रथमक्षणेऽपि विनश्यतु विनाशहेतोरघटनादिति युक्तविनाशाहेतुकत्वं भवद्भिर्गीयते, तच कॅथश्चिदन्वयेऽपि 15 सङ्गच्छत एव, पर्यायरूपतया प्रथमक्षणेऽपि विनाशाभ्युपगमात् । ___ न च तद् विनाशाहेतुकत्वं सिद्धमप्यस्माकम् , न केवलं हेतुः सन्दिग्धविपक्षव्यावृत्तिकः, असिद्धोऽपीत्यर्थः । उत्तरपरिणामांशरूपत्वाद्विनाशस्य, सर्व हि वस्तु सदसदात्मकम् , तत्रोत्तरपरिणामस्य कपालादेर्यो घटादिरूपेणासत्त्वलक्षणः स्वतो भिन्नाभिन्नो धर्मः स एव घटादीनां प्रध्वंसः, एवं च युगपदुत्पादव्ययधौव्यात्मकत्वमपि 20 वस्तुनः स्यात् , कपालादेरुत्पाद-व्ययद्वयात्मकत्वात् , मृदादिद्रव्यस्य स्थितिमत्त्वाच्च । 71A यत्रापि कपालादय एव प्रध्वंसत्वेन व्यवहियन्ते तत्रापि प्रध्वंसाभेदेनोपचारान्न मुख्यतः । से चेति विनौशः कारणान्वयव्यतिरेकानुविधाथी सिद्धः प्रत्यक्षत एव प्रतीतः । १ शेषस्यान्वयः ॥ २ संवत्सरं यावद् स्थितिस्वभावो भावस्य ॥ ३ * "हेतुत्वं' इति मूलादर्श पाठः ।। ४ तत्राव्याप्तेः ॥ ५ विषये ॥ ६ निर्हेतुको विनाशः ॥ ७ अभ्युपगमवादेनोच्यते निर्हेतुकत्वं 26 विनाशस्य, यावता कालाद्यपेक्षण सदाप्यस्येव ॥ ८ न च तत् सिद्धमपि ॥ ९ विनाशहेतोरयोगश्च भविता, निरन्वयनाशिनश्च न भवितार इति ॥ १० घटादिप्रध्वंसात्मको व्ययः॥ ११ स च कारणान्वय. व्य तिरेकानुविधायी सिद्धः ॥ १२ उत्तरपरिणामांशरूपः । For Private & Personal Use Only Jain Education International 2010_05 www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy