________________
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स्यात् , चः पराशङ्कां धनति । वह्निज्ञानेन वह्निमात्रं धूमज्ञानेनापि धूममात्रं परिच्छिन्नं न पुनरनयोः सावधिकं कारणत्वं कार्यत्वं च । एवं च सति ज्ञानद्वयाहितसंस्कारवशोत्पनो विकल्पो वबिधृमयोवह्नित्वं धूमत्वं च विकल्पयेदनुभवेन तयोरनु
भवात् । कार्यकारणभावं तु कथम् , तस्यानुभवेनाननुभवात् । यच्चानुभवाविदितं 66A स्वमनीषिकया विकल्पयति तदप्रमाणमेव । अन्यथा सामान्य त्रिकालावस्थायित्वादेरपि 5
प्रमाणोपपन्नत्वप्रसङ्गो भवतः स्यात् । तद्यावदनुभवेन विदितं विकल्पो विकल्पयति तावत् प्रमाणम् , यावत् पुनरविदितं तावत् सामान्यादिवदप्रमाणम् । कार्यकारणभावं चानुभवाविदितं विकल्पयति ततः सोऽप्यप्रमाणमेव । ततश्चाग्नि-धूमदर्शनेऽपि कार्यकारणभावानवगमात् कस्यचिदपि धूमादग्निपरिज्ञानं न स्यात् , कार्यकारणभावावगमस्यैव गमकतोपायत्वात् । न खलु बीजैवद्योग्यतया गमकं लिङ्गम् , किन्तु- 10 स्वसाध्येनाविनामावित्वेन निश्चितम् । अविनाभावित्वनिश्चयश्च स्वभावत्वावगमः कार्यत्वावगमो वा नान्यः । तदिति तस्मानिरन्वयनाशाभ्युपगमे कार्यकारणभावावगमो
न स्यादेव । 66B अपि च, यथैकान्तनित्यत्वे क्रम-योगपद्याभ्यामर्थक्रिया न घटते तथैकान्तक्षणिकत्वेऽपि, तत्र योगपद्याभावमाह
युगपत् कर्तृत्वमपि न स्यात् . एकरूपोद्भवस्यैकरूपत्वात् । हेतु-प्रत्ययत्वे अपि वस्तुसतो न निरंशस्य । अवस्तुत्वे तदवस्थः प्रसङ्गः ।
युगपदिति । प्रतिक्षणनिरन्वयनाशाभ्युपगमे न केवलं कार्योत्पत्तिः कार्यकारणभावावगमश्च न स्यात् , तथा कारणानां युगपदनेककार्यकर्तृत्वमपि, एकरूपोद्भवस्य 20 एकस्वभावकारणप्रभवस्यानेकस्यापि कार्यराशेरेकरूपत्वादेकस्वभावत्वप्रसङ्गात् । कारणवैसदृश्यप्रभवो हि कार्याणां वैसदृश्योदयः ?
स्यादेवम्-एकमपि कारणं क्वचिदुपादानभावेन चिच्च सहकारिभावेन व्याप्रियते, तत एकरूपत्वमसिद्धमेवेति । नन । यस्माद्धेतु-प्रत्ययत्वे अपि उपादानसहकारित्वे अपि वस्तुसती न निरंशस्य स्याताम् । निरन्वयनाशवादिनां हि मते 25
15
१ भादग्नेः ॥ २ यथाऽज्ञातमपि योग्यं बीजमफुरं जनयति ।। ३ तन्न कार्यकारणभावावगमः ॥ ४ युगपत् कर्तृत्वमपि न स्यात् ॥ ५ एररूपोद्भवस्येकरूपत्वात् ॥ ६ हेतु-प्रत्ययम्वे अपि म वस्तुसती निरशस्व ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org