________________
उत्पाद-व्यय-ध्रौव्यसाधनम् ।
१७७ 'हिर्यस्माद् विशिष्टोऽपि स्वभावोऽग्नेधूमस्य च स्वपरिनिष्ठो धूममाग्न चावधिमनपेक्ष्य न युक्तः । मा भूदविशिष्ट इति हेतोः । अग्नेधूमस्य च कारणत्वमानं कार्यत्वमात्रं च विशिष्टः स्वभावो न वक्तव्यः, किं त्वग्नि-धूमावैधिरेव सन् , निर्विशेषणस्य
विशिष्टत्वाभावात् , कारण-कार्यत्वमात्रग्रहणेऽपि फलाभावाच । यदि ह्यग्नेधूमकारण64B त्वं धूमस्य चाग्निकार्यत्वं गृहीतं स्यात् तदाग्निधूमयोः कार्यकारणभावः सिध्येद्धम- 5
दर्शनाचाग्निरनुमीयेत, न चैतत् कारण-कार्यत्वमात्रावगमे सिध्यतीति फलाभावः । ततोऽग्नि-धूमावधिक एव स्वभावो विशिष्टो वक्तव्यः । स च स्वपरिनिष्ठो न भवति, अवध्यपेक्षत्वात् । अतश्च वस्तुसामर्थ्य भाव्यपि निर्विकल्पकमग्नेधूमस्य च कारणत्वमानं कार्यत्वमात्रं च गृह्णीयात्, धूमकारणत्वमग्निकार्यत्वं च ग्रहीतुमशक्तमेव 'विनाशा-ऽनुत्पादाभ्यामग्नि-धूमयोरसन्निहितत्वात् ।
10 ननु पितरं पुमांसमालोकयल्लोकः पुत्राग्रहणेऽपि निर्विकल्पकधिया पितृत्वं गृह्णात्येव । तन्त्र । अगृहीतपुत्रस्य पितर्यपि पुंसि पुंस्त्वमात्रग्राहिकाया एव धियः संवेदनात् ।
नन्वेवं यदि सदपि धूमकारणत्वमग्निकार्यत्वं चाग्निधूमयोरवध्यग्रहणे निर्वि65. कल्पकं न गृह्णीयात्तदाऽस्य वस्तुसामर्थ्यभावित्वेन यत् सामग्राहित्वं तद्धीयतेति ।
तन्न । यतः को वै मन्यते यत् सकलुषपुरुषविज्ञानानि सर्वात्मना स्वविषयानवगच्छ- 15 न्तीति ? सर्वज्ञज्ञानस्यैव तंत्र सामर्थ्यात् । ततो यद्यग्नि-धूमयोः सदपि सावधि कारणत्वं कार्यत्वं च निर्विकल्पकं न परिच्छिनत्ति तथापि न दोषः । एवं तर्हि गृहीतागृहीतांशयोर्भेदेन वस्तुनोऽनेकत्वप्रसङ्गः स्यात् । अस्तु नाम, कथञ्चिदनेकत्वस्यापीष्टत्वात् , धर्म-धर्मिणोः कथञ्चिद् भेदात् । तस्मादन्वयिन 'ऐकस्याभावे प्रत्येकं स्वगोचरमात्रसंवेदनाद् युक्तिसहस्रैरपि कार्यकारणभावावगमो न सङ्गच्छते । 20
स्यादेवम्-अग्नेधूमस्य च ग्राहकेण स्वस्मिन् स्वस्मिन् विषये परिच्छिन्ने सति 653 यो विकल्पो जायते स कार्यकारणभावं व्यवस्थापयति, पूर्वज्ञो द्वयाहितसंस्कार
वशोत्पादेन तस्य युगपदग्नि-धूमद्वयविकल्पनसामर्थ्यादिति । तदसङ्गतम् , यतोऽनुभवेन निर्विकल्पकेनाऽविदितं च विकल्पयन् विकल्पः कथमुपादेयः प्रेक्षावतां प्रमाण १ विशिष्टोऽपि हि स्वभावो नादवधिः ॥ २ एतदेव वैशिष्ट्य यदनिर्धमावधिः, धूमो वयवधिः॥ 25 ३ अमः ॥ ४ धूमस्य ॥ ५ धमकाले वढेविना ॥ ६ वह्निकाले धूमस्यानुत्पादात् ॥ ७ • "यल्लोकः' इति हस्तलिखितादर्श पाठः ॥ ८ स्वरूप ॥ ९ '६' [-विग्रहे षष्ठयन्तम् ] ।। १० सर्वात्मना विषयग्रहणे ।। ११ ग्राहकस्य ॥ १२ धूमशान-वह्निशान ॥ १३ विकल्पस्य ॥ १४ अनुभवाविदितं च विकल्पयन् विकल्पः कथमुपादेयः स्यात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org