________________
NA
१७६
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे । गोचरमात्रसंवेदनात् । न ह्यगृहीतावधिनाऽवधिमत्त्वग्रहः । विशिष्टोऽपि हि स्वभावो नानवधिः । मा भूदविशिष्ट इति । अनुभवाविदितं च विकल्पयन् विकल्पः कथमुपादेयः स्यात् । तन्न कार्यकारणभावावगमः ।
तेदित्युपसंहरति, तत् तस्मान्न निरन्वयनाशिनो द्रव्यरूपतयाऽपि विनश्वरात् कारणात् । कार्योत्पत्तिर्घटते । 'कार्येति, एवं निरन्वयनाशाभ्युपगमे हेतु-फलभावावगमोऽपि न स्यात् , अन्वयिनः कार्यकारणकालानुगमवतो ग्राहकस्याभावात् । विज्ञानं हि पदार्थानां हेतुफलभावावगमोपायः । तच्च क्षणिकत्वात् कार्यकारणकालयोनिमेवेत्येकस्य प्राहकस्याभावः ।
अन्वयिनोऽभावेऽपि कथं कार्यकारणभावावगमो न भवतीति येत् , उच्यते- ।। प्रत्येकं स्वगोचरमात्रसंवेदनात् । अनिविज्ञानं ह्यग्निमात्रमेव परिच्छिनत्ति न धूमम् , तैदानी तस्यासत्त्वात् । धूमविज्ञानमप्येवम् , धूमकाले तस्याभावात् । न चाय
मस्य हेतुरिति कार्यकारणयोरप्रतिसन्धाने हेतुफलभावावगमो युक्तः । प्रतिसन्धान 60 चैकमुभयग्राहकमृते न घटत एव ।
स्यान्मतम्-अमिविज्ञानमग्नि परिच्छिन्द धूमकारणत्वमपि परिच्छिनत्ति । धूम- 15 विज्ञानमपि धर्म परिच्छन्ददनिकार्यत्वमपीत्येकस्य ग्राहकस्याभावेऽपि कार्यकारणभावावगमो घटत एवेति । तत्र, "हिर्यस्मानागृहीतविधिनाऽपरिच्छिन्नकार्यकारणेन ज्ञानेनाsवधिमत्त्वस्य कारणत्वस्य कार्यत्वस्य च ग्रहो भवति । अग्रेः कारणत्वं हि धूमावधिकं न पुननिरवधिकम् , धूमस्यापि कार्यत्वमग्न्यवधिकमेव । यच्च विज्ञानमवधिं न गृह्णाति तत् कथं तैद्ग्रहणनान्तरीयकमवधिमत् कारणत्वं कार्यत्वं वा गृहीयात् ? 28 तस्मादन्वयिनो ग्राहकस्याभावे कार्यकारणत्वावगमो नोपपद्यत एव ।
स्यान्मतिः-अमेधूमहेतुत्वं नाम विशिष्टः स्वभावः स्वपरिनिष्ठो न परापेक्षः, धूम64A स्याप्यग्निकार्यत्वमेवमेव । ततश्च वस्तुसामर्थ्यभाव्यनिनिर्विकल्पकं धमनिर्विकल्पकं च स्वं
स्वं विषयं विशिष्टस्वभावमेव परिच्छनत्ति, केवलं निश्चयेनाभिव्यज्यत इति स्वगोचरमात्रसंवेदनेऽप्यवधेरग्रहेऽपि च कार्यकारणभावावगमो घटत एवेति । तत्र । १ तन निरन्धयनाशिनः कार्यात्पत्तिः।। २ कार्यकारणभावावगमोऽप्येवं न स्यात् ॥ ३ अम्बयिनो ग्राहकस्याभावात् ॥ ४ बौध आह ॥ ५ अमिमात्रकाले ॥ ६ धूमस्य ।। ७ धूममात्रमेव परिच्छिनत्ति, न वहिम् ।। ८ वहेः ।। ९ क्षणिकवादेव ।। १० अमिः ॥ ११ धूमस्य ॥१२ उभयस्य कार्यकारणस्य प्राहक ॥ १३ न पगृधीतावधिनाऽवधिमरवग्रहः ॥ १४ अवधि ॥ १५ विकल्पेन ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org