________________
उत्पाद-व्यय-ध्रौव्यसाधनम् ।
१७५ यतश्च कथञ्चिदेव सत्वं साध्यते न सर्वथा तेन यदुक्तं परेण-"यो हि यदूपो नोपलभ्यते न स तदूपो यथा सुख दुःखरूपेणानुपलभ्यमानं न तद्रूपम् , तथा च दषिरूपेण नोपलभ्यते क्षीरमिति न तद्रूपम् । सत्वं हि तादृशस्य दृश्यस्योपलभ्यतया व्याप्तं सन्मात्रनिमित्तत्वादुपलम्भस्य, उपलम्भाभावाच व्याप्यस्यापि सत्त्वस्य निवृत्तिः । इतररूपोलम्भेश्च तद्रूपानुपलभः" [ ] इति, तदपि प्रत्युक्तं गोरसत्वरूपेणैव 5 परिणामिनि दनः सत्त्वाभ्युपगमात् , न दधिरूपेण । तदनुपलम्भस्य चासिद्धत्वात् । ततो यदि क्षीरस्य दध्नो यद्विशेषरूपं दधित्वं तनिषिध्यते तदा सिद्धसाधनम् ।
अथ सोमान्यरूपं तदा हेत्वें सिद्धिः । 12 तथेदमपि प्रत्युक्तम्-“अथ केयं शक्तिः किं स एव भाव उतान्यदेव
किंश्चित् । स एव चेत् तथैवोपलभ्येत, विशेषाभावात् । अन्यञ्चेत् , कथमन्यभावे 10 नदस्ति । उपचारमात्रं तु स्यात् । एतेन पेरत्र भावः प्रत्युक्तः" [ ] इति ।
तस्मात्र निरुपाख्यस्य जन्माभिसम्बन्धो घटत इति स्थितम ।
ननु पर्याया असन्तोऽपि प्रतिनियतरूपा एव प्रतिनियतादेव हेतोरुत्पद्यन्ते । कारणान्यप्यवध्यभावेऽपि प्रतिनियतोत्पादशक्तीन्येव दृश्यन्ते । तत् कथमसत्कार्यवादे as रूप-हेतुनियमः कारणशक्तिनियमश्च नोपपद्यत इति । उच्यते-पर्यायेति । नासन्तः 15
पर्याया उत्पद्यन्ते, द्रव्यस्यावधेः सचात् । द्रव्यपर्यायाणां हि परम्परं भेदाभेदौ । ततो 'द्रव्याभेदार्पणायां पर्याया अपि स्यात् सन्तः, द्रव्यस्य सन्चात् । 'पर्यायामेदार्पणायां च द्रव्यमपि स्यादसत् , पर्यायाणामसत्त्वात् । एवं च न पर्याया असन्त एव, नापि द्रव्यं सदेव, कि तूभयं स्यात् सदसत् । ततो यदि द्रव्यरूपतया सन्तः पर्याया रूप-हेतु नियममुपयच्छन्ते तदा को विरोधः, सर्वथाप्यसत एव रूप-हेतु- 20 नियमाघटनात् । ___ तन्न निरन्वयनाशिनः कार्योत्पत्तिः । कार्यकारणभावावगमो. ऽप्येवं न स्यात्, अन्वयिनो ग्राहकस्याभावात् प्रत्येकं स्व.
१ कार्यस्थ शक्तिरूपतया कारणे सत्त्व साध्यते, न व्यक्तिरूपतया ॥ २ दुःख ॥ ७ आलोकादिसामग्रीयुक्तस्य ॥ ४ पिशाचादिव्य[वच्छेदः] || ५ कारणोपलम्भः।। ६ मृद्रपोपलम्भश्चाभूत् , घटोपलम्भश्च नाभूदिति स नास्तीति ॥ 25 ७ द्रव्ये क्षीरे ।। ८ गोरसच ॥९ गोरसत्वम् ॥ १० अनुपलम्भादिति लक्षणो हेतुः ॥ ११ परिणामिनि दुग्धादौ दध्यादि शक्तिरूपायास्तीति आशङ्कयोच्यते ।। १२ दयादि ।। १३ दध्यादिरूपतया ॥ १४ '६' [=षष्ठयन्तं विग्रहे ] ।। १५ दध्यादि । १६ शक्रया दध्यादेर्जननाद् दध्यादिक शक्तिशन्देन व्यपदिश्यते ॥ १७ यथा कारणे कार्यसद्भावः तथा कार्य कारणसद्भाय इत्यर्थः ॥ १८ पर्यायान्पत्तद्रव्यं सदधधेः ।। १९ द्रव्येण सहाभेदविवक्षायाम् ।। २० कश्चित् ।। २१ पर्यायेण सहाभेदविवश्वायाम् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org