SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २७४ स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे । ममुना प्रकारेण वादी सम्भवति । इदं हि दैष्टिकवचस्तार्किका नाभिदधत इति वाधवगमे वार्तिककृत् सचिन्तः समभृत् । ततः क्षणमेकं विमृश्य स्वयमेवैवंवादिन सम्भावयति-मुहुरिति । अपि नामेति सम्भावनायाम् , सम्भाव्यते क्षेत्रवादित्वं 600 निरन्तरं स्निग्धदुग्धोपजीविनो भिक्षोः । अंजीर्णशीर्णचैतन्या हि पुमांसोऽश्लीलमप्यभिधातुं सम्भाव्यन्ते । ___ अजीर्णदोषभाषित्वमेव समर्थयते-हिर्यस्मात् केनचिदात्मना येन केनापि स्वभावेन सन् विद्यमानो भावः शक्यतात्मन्युत्पत्तिलक्षणं विशेषमाधातुम् , अवस्थितस्य हि दुःश्रद्धानमपि किश्चिदक्षिणी निमील्य सम्भाव्यते । सर्वथा निरुपारव्यस्तु यः पुनः केनापि प्रकारेण न सन् स तथा भूतोजीर्णदोषोपहतेचैतन्यवचोवाच्यः कं 'घटः पृथुबुध्नोदराद्याकारः' इति रूपनियम 'चक्र-चीवरादिसामप्रपा उत्पद्यते' इति हेतुनियम- 10 मुपादित्सेत स्वीकर्तुमिच्छेत् , न कमपीत्यर्थः । केनापि रूपेणावस्थितो बहमेतपमात्मनः प्रपद्येऽस्माच कारणादुत्पद्ये इति विचिन्तयितुं सम्भाव्यते । यः पुनः सर्वथाप्यसन् स सर्वरूपः सर्वहेतुभ्यो वा भवतु मा वा सर्वथापि, रूप-हेतुप्रतिनियमस्तु सर्वथाप्यसतो न घटते । तथाहि-यद् यस्योऽसहकारिकारणं तत् कथश्चित् तदात्मकम् । यत् पुनः 15 कथञ्चिद् यदात्मकं न भवति तत् तस्यासहकारिकारणमपि न भवति । सहकारिकारणमेव भवतीत्यर्थः, यथा दण्डो घटस्य । असहकारिकारणत्वं प्रतिनियतरूपकार्यजनकत्वेन व्याप्तम् । कथञ्चित् कार्यात्मकत्वाभावे च कार्यस्य सर्वथाप्यसत्त्वात् प्रतिनियतरूपकायर्जनकत्वाभावः स्यात् । ततः प्रतिनियतरूपकार्यजनकत्वं कथञ्चित कार्यात्मकत्वोभावाभिवर्तमानं स्वव्याप्यमसहकारिकारणत्वं निवर्तयत् कथञ्चित् 28 कार्यात्मकत्वे व्यवस्थापयतीति स्वभावः । स्वकारणकृतं च प्रतिनियतरूपकार्यजन610 कत्वं प्रागेव प्रपश्चतः प्रतिक्षिप्तमिति परेण न तदुपन्यसनीयम् । इदं च प्रमाणं सर्वथा ऽप्यसत उत्पत्तिमेकान्तक्षणिकता-नित्यते च वस्तुनो निराकरोति । १ मुहुर्मुहुः प्रपायमानातिस्निग्धदुग्धरमोपचयोपचिताजीणंदोषेणापि नाम भिक्षुः सम्भवति ॥ २ ३' विग्रहे तृतीयान्तम् ] ॥ ३ केनचिदात्मना हि मन शक्यतात्मनि 25 कमपि विशेषमाधातुम् ॥ ४ सर्वथा निरुपारव्यस्तु के रूपहेतुनियममुपादित्सेत ॥ ५ प्रसः प्रथमसमासः, बहुव्रीहिरित्यर्थः ॥ ६ बौद्ध । '६' [विग्रहे षष्ठ्यन्तम् ] ॥ ८'३' विग्रहे तृतीयान्तम् ] || ९ * अजीर्णदोषोपहतचैतन्यस्य वौद्धस्य वचसा वाच्य इति भावः ॥ अनन्तरोक्तानां चतुर्णा टिप्पणानामिद तात्पर्यम् ॥ १० हेतुनियम] च ।। ११ उत्तरपर्यायः ॥ १२ ओस् '६'[-षष्ठी. द्विवचन विग्रहे, रूप-हेल्योः प्रतिनियम हत्यर्थः]॥ १३ कार्यस्य ॥ १४ परिणामिकारणम् ॥ १५ कार्य ॥ 30 १६ कार्य ।। १७ कार्यस्थ ।। १८, १९ ६' [-विग्रहे षष्ठयन्तम् ] || २० फारणकारणः ।।। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy