________________
उत्पाद-व्यय-धौम्यसाधनम् । एवं चैतदपि' प्रत्याख्यायि-"अतेदात्मत्वेऽपि क्षीरस्य स तस्य स्वभावो यो दधिजननो न शशविषाणजननः । स तस्य कुत इति चेत , स्वहेतुसमुत्थ इत्यनादिहेतुपरम्परा" [ ] इति ।
नियतदर्शनं नियतोत्पादाविवादे नियतशक्तिमवगमयेत् ।
स्यादेवम्-असत्चाविशेषेऽपि तावत् प्रतिनियतस्यैवोत्पादो दृश्यते, अतोऽवध्य- 5 भावेऽपि कारणानां प्रतिनियतकार्योत्पाद एव शक्तिरनुमीयते। कार्यकसमधिगम्या प्रतीन्द्रियाः कारणशक्तयो न विचारकविचारवशतो लक्षयितुं शक्यन्त इति । न । नियंतेति । नियतं कार्यमुत्पद्यमानमुपलम्य कारणस्य प्रतिनियतकार्यजननशक्तिरवMA गम्येतापि यदि नियतोत्पादो निर्विवादो भवेत् । किन्तु नियतोत्पाद एवासत्कार्य
वादे चिन्तनीयोऽस्ति, असत्त्वाविशेषात् सर्वस्योत्पादप्रसङ्गात् । ततः कथं नियतो- 10 त्पादः सविवादः कारणस्य नियतशक्तिमवगमयेत् , मशकवत्तिरूपेण सन्दियमानाद् धमादपि धूमध्वजानुमानप्रसङ्गात् । किञ्च, यदि सर्वथाप्यसत्कार्य तदा कारणस्य कारणत्वमपि न प्रामोति कार्यापेक्षित्वात्तस्य, कारणस्य सर्वथाप्यसत्वे भावकार्यत्ववत् , तदपेक्षित्वात्तस्य । कार्यजन्मनि तु कारणत्वाभ्युपगमेऽकारणादुत्पत्तिः स्यादिति । सम्प्रति परोपहासकरणाय पाह
15 उत्पत्तिर्भावसत्तैव । नास्याः प्रतिपत्ताऽस्ति । किन्तु कुतोऽप्यतर्कितेयमुपलभ्यत इति । क एवं वादी सम्भवति ? मुहुमुहुः प्रपीयमानातिस्निग्धदुग्धरसोपचयोपचिताजीर्णदोषेणाऽपि नाम भिक्षुः सम्भवति । केनचिदात्मना हि सन् शक्येतात्मनि कमपि विशेषमाधातुम् । सर्वथा निरुपारव्यस्तु के रूपहेतुनियम- 20 मुपादित्सेत ? पर्यायोत्पत्तः द्रव्यं सदवधेः । ___ उत्पत्तिरिति । यैव भावानां सत्ता सैवोत्पत्तिः,न पुनः सत्तातोऽधिकोत्पत्तिक्रिया काचिदस्ति । अस्या भावसत्तारूपाया उत्पत्तेः प्रतिपत्ता य एनामुत्पत्तिमुपश्लिष्यति स नास्ति, किन्तु कुतोऽपि कारणविशेषादतर्किताऽज्ञाता इयमुत्पत्तिरुपलभ्यते । के एव१ बौद्धोक्तम् ॥ २ अदध्यारमत्वेऽपि ॥ ३ क्षीरस्य ॥ ४ नियतदर्शनं नियतोत्पादाविषादे नियत- 25 शक्तिमत्रगमयेत् ॥ ५ पदार्थस्य ।। ६६' [=षष्ठन्तं विग्रहे] || ७ भावस्य कार्यत्वं न प्राप्नोति यथा ॥ ८ कारण ॥ ९ उत्पत्तिर्भावसत्तेव, नास्याः प्रतिपत्तास्ति, किन्तु कुतोऽपि अतर्कितेयमुपलभ्यत इति ॥ १० क एवं धादी सम्भवति १ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org