________________
१७२
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे परतन्त्राः । अत एव सहकारिणः । ततश्वोपादानस्य प्रतिनियतकर्तृतायां तेषामपि तथाभावः, राज्ञो धनार्जने पदातिधनार्जनवत् ।
__ ननु सर्वकार्याणामसच्चाविशेषेऽपि स्वकारणः कारणानां प्रतिनियतकार्यजनने एव शक्तयो वितेनिरे, ततः कारणान्येवात्रापराध्यन्ति यान्यसत्त्वाविशेषेऽपि प्रतिनियतकार्यजननशक्तीनेवोत्तरक्षणानुत्पादयन्ति, न वयम् , केवलं वयं दरस्थिता 5 एव द्रष्टार इति। तन्न । यतः कारणान्यपि उपसर्पणहेतवोऽपि कार्यजननसामर्थ्यमात्र
मनन्तरकारणानामनवधिकमस्मिन् कार्ये जननसामर्थ्य नास्मिन्नित्येवमवधिरहितं जनयेयुः । 59. अवधेः कस्यचिदपि अभावात् , कारणसत्ताकाले सर्वस्यापि भाविनः कार्यराशेः
सर्वथाप्यसत्त्वात् । यदि हि शालिबीजहेतुसत्तायां लेशतोऽपि शाल्यड्डुरः सन् स्यात् कोद्रवाश्रच सर्वथाप्यसंस्तदाऽसौ शाल्यकुरावधिकं शालिवीजस्य कार्योत्पादसामर्थ्य- 10 मपेयेद् न कोद्रवाङ्करावधिकम् । यदा तु द्वावपि शालिकोद्रवारौ सर्वथाऽप्यसन्तो तदा शालिबीजहेतुरुभयविषयं वा जननसामर्थ्यमुपजनयेदवध्यनपेक्षं सामर्थ्य मात्रं वा। प्रतिनियतविषयं तु न घटत एव ।
___ ततो येदवादीद्-"यत्पुनरसता कार्येण कारणस्य न स्वभावापच्छेद इति तन्मौर्यस्याप्यधिष्ठातृदेवताप्रतिममुपहासास्पदम् , यतोऽवच्छेद इति न "विशिष्टता- 15 पादनम् । तदपि चाल्पमुच्यते-असता न सम्भवतीति, सेताऽपि नोपंद्यते । न हि सेदपि सन्तमर्थ विशेषीकरोति । ततो न कार्येण तथाविधोऽवच्छेदोऽपि तु स्वकारणेनैव, तत एव तस्य तत्कार्यजनकस्योत्पत्तेः" [ ] इति तद्देवानाप्रियप्रलपितमित्यवगण्यते , यतोऽवधेरभावादित्यनेन नोच्यते 'असता कार्येण कारणस्य प्रतिनियता शक्तिर्न शक्यते कर्तुम् ' । किं नाम ? इदमुच्यते-असत्यवधावुपैसर्पणहेतवो- 20 ऽन्त्येक्षणानां प्रतिनियंत जननशक्तिमाधातुं न शक्नुवन्तीति । उपसर्पणहेतवश्च सन्तः। अन्त्यक्षणाश्चासँन्तः । सतां चासत्सु सामर्थ्यासामर्थ्यचिन्तायां किमसत्कार्यवादिनो बौद्धस्योपहासास्पदम् ?
१७' [-सप्तम्यन्तम् ] ॥ २ कारणान्यपि कार्यजननसामर्थ्यमात्रमनवधिकं जनयेयुः ॥ ३ कारणकारणानीत्यर्थः ॥ ४ अवधेरभावात् ॥ ५ बौद्ध (दः १) जैन प्रति ॥ ६ नियतकार्य प्रति जन- 25 कोऽसौ इति स्वरूपावच्छेदः ॥ ७ विशिष्ट कार्य स्वया जनयितव्यमित्युलेखेन ।। ८ कार्येण ॥ • फायण ॥ १. विशिष्टतापादनम् ॥ ११ कार्यम् ॥ १२ सर्वस्यापि पदार्थस्य क्षणिकत्वात् ।। १३ कारणस्य ॥ १४ बनेन ॥ १५ पूर्वकारणानि ॥ १६ अनन्तरकारणानाम् ॥ १७ विशिष्टकार्यजननक्षण || १८ कार्यल्पाः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org