________________
उत्पाद-व्यय-धौम्बसाधनम् । धौव्यपरिहारेण विनश्वरात् कार्यस्योत्पादाघटनात् । 'हिर्यस्मान्न निरुपारव्यस्य सर्वो578 पारव्याशून्यस्य जन्माभिसम्बन्ध उत्पादक्रियासमावेशो घटते । यदा हि पर्यायरूपतया
कारणं विनश्यति द्रव्यरूपतया चावतिष्ठते तदावस्थितं रूपमुत्पादेनाभिसम्बध्यते, तस्यैवोत्तरपर्यायरूपेण भावात् । यदा पुनद्रव्यात्मतयाऽपि कारणं विनश्यति तदा न कस्यचिदप्युत्पादः स्यात् , सर्वथाऽप्यसतो जन्माभिसम्बन्धाभावात् । सर्वतः 5 सर्वस्मात् कारणात् सर्वस्य कार्यगशेः शालिबीजात् कोद्रवाङ्कुरादेरनुत्पादात् । यदि हि सर्वप्रकारमसदपि जन्माभिगच्छति तदा किमित्येकस्माच्छालिवीजात् स्वाकुरवदशेषाकुरप्रसवो न भवति, सर्वत्रासत्त्वाविशेषात् । तस्मानियतानियतस्यैवोत्पाददर्शनात् कथञ्चित् सत एव जन्मामिसम्बन्ध इति विमृश्यते । कारणस्य च द्रव्यरूपतयावस्थितिरेव कार्यस्य कथञ्चित् सत्त्वम् , परिणामिकारणस्यैव कार्यभावाभ्यनु- 10 ज्ञानात् ।
कारणशक्तिनियमोऽपि असत्त्वाविशेषादसन् । कारणान्यपि कार्यजननसामर्थ्यमात्रमनवधिकं जनयेयुः, अवधेरभावात् ।
स्यादेतत्-असत्वाविशेषेऽपि यदेव कारणेनोत्पाद्यते तदेवोत्पाद्यते, नापरम् । कारणानां च सहकारिणामिव प्रतिनियतमेवोत्पादयितुं शक्तिः,ततोऽसदुत्पादेऽपि न 15 सर्वोत्पादप्रसङ्ग इति । तन्न । यस्मात् कारणशक्तिप्रतिनियमोऽप्यसत्त्वाविशेषात् सर्वकार्याणामेकान्तासत्त्वस्य तुल्यत्वादसन् अघटमानकः । यथैव कोद्रवाकुरोऽसन् शाल्यडुरोऽपि तथैवासंस्ततः किमित्यसत्वाविशेषेऽपि शालिवीजस्य स्वाङ्करप्रसवे शक्तिन कोद्रवाकुरप्रसवे ? ननु तत्रापि शक्तिः प्रामोति यदि सत्यं न पक्षपातोऽस्य । ___ननु शालिबीजस्य शाल्यङ्कर एवात्मीयो न कोद्रवाईरस्ततस्तत्रैव शक्तिर्नान्य- 20
प्रति । तदेतदात्मीयत्वं शाल्यङ्करस्य शालिबीजादुत्पादनिबन्धनम् । स चोत्पादोऽस्मSUB दुक्तनीत्या कोद्रवाङ्करस्याप्युपस्थितः,ततः सोऽप्यात्मीय एवेति तस्यापि जननप्रसङ्गः।
यत् पुनः सहकारिणों भेदाविशेषेऽपि नियतमेवोत्पद्यते तत् सङ्गतमेव । ते ह्यपादान१ न हि निरुपारन्यस्य जन्माभिसम्बन्धः ॥ २ व्यक्ति ॥ ३ कारणशक्तिनियमोऽपि असत्याविशेषादसन् || ४ - अत्र 'अथो' इति 'अत्रो' इति वा सूक्ष्माक्षरैलिखितं टिप्पणं वर्तते, यदि 25 'अत्रो' इति लिखितं तदा 'अत्रोत्तरम्' इति सम्पूर्णपाटस्य स्तः प्रतिभाति ॥ ५ शालिबीजस्य ॥ ६ प्रसः [-प्रथमसमासो बहुव्रीहिरित्यर्थः, उत्पादो निबन्धनं यस्य तत् तथा इति भावः ।। ७ ५' [पञ्चम्यन्तम् ] ॥ ८ शाल्यडर-यवाहुरौ सहकारिणः सकाशादेकान्तभिन्नावपि परं तमालम्म्य एक एवोत्प]द्यमानो दृश्यते ॥ ९ सहकारिणः ॥
58A
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org