________________
१७०
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे सामर्थ्य कारकसाकल्यमेव क्रियते, तत्सद्भावे कार्यदर्शनात् । असामर्थ्य तु वैकल्यं 56A निवर्सते साकल्य-वैकल्ययोः परस्परं सहस्थितिविरोधात् । न च तेयोराविर्भाव-तिरोभावाभ्यां भावस्य तथाभावप्रसङ्गः" [
] इति, तदपि निरस्तम् । तथाहि-सहकारिणा यत् कार्य क्रियते तत्राकारकत्वप्रसङ्गाद् भावस्यापि व्यापारः परासाधारणः कश्चिदभ्युपेयः, स च पूर्व नासीत् । अन्यथा तदन्यथानुपपच्या सह- 5 कारिणामपि समिधानप्रेसङ्गात् तसद्भावेन पूर्वमपि कार्योत्पत्तिः स्यात् । स च व्यापारः सहकारिकृतस्तदन्वय-व्यतिरेकानुविधानात् । भेदे च सम्बन्धाभावादकारकस्वस्य तादवस्थ्यप्रसङ्गेनाभित्र एवासौ क्रियते । तथा नानित्यत्वमेव भावस्य, व्यापारवद् व्यापारिणोऽप्यभेदेन करणप्रसङ्गात् । कारकसाकल्यपक्षेऽप्ययमेव दोषः ।
अपि च, अनुपकारिणमपि सहकारिणमपेक्ष्य चेतनो भावः स्वेच्छावृत्तितया 10 समयवशात् क्रियासु प्रवर्तेतापि, अचेतनः पुनरनुपकारिसहकारिसन्निधाना-ऽसभिधान
योरविशिष्टः । तदयमन्धपदविन्यासवदसनिधानेऽपि सविधानमिति कार्ये प्रवर्तेत, 563 सविधानेऽप्यसभिधानमित्युदासीत, उपकाराधानप्रतोदाभावस्योभयत्रापि तुल्यत्वादिति । 57. अन्यस्त्वाह-"सहकारिमिन "हेतीविशेष आधीयते, न चानुपकारिणामनपेक्षा,
कार्यस्योभैयभावाधीनस्वभावत्वात् । एकैकस्माद् व्यभिचारादुभयाधीनजन्मत्वादुभयो- 15 हेतुता कल्प(लप्य ?)ते" [ ] इति । एतदपि न पेशलम् , कार्यस्य [भयाधीनत्वकल्पने कैवल्यावस्थायां हेतोरसामर्थ्य स्वतएवाभ्युपगतम् , कथमन्यथा कार्यमुभयमपेक्षत इति ।
तदेवं व्ययमुपपाद्य स्थितिमुपपादयति___तत् प्रतिक्षणं कथञ्चिद विकारिण एवार्थक्रिया । एकान्त- 20 क्षणिकेऽपि तदयोगात् , निरन्वयनाशिनै: कार्योत्पत्त्यभावात् । न हि निरुपाख्यस्य जन्माभिसम्बन्धः, सर्वतः सर्वस्यानुत्पादात् ।
तत् तस्मात् कथञ्चिन्न सर्वथा विकारिणो विनश्वरस्य । 'एकान्तेन क्षणिकेऽपि न केवलं नित्ये, तदयोगात् तस्या अर्थक्रियाया अघटनात् , निरन्वयनाशिनः सर्वथाऽपि १ साकल्यवैकल्ययोः ॥ २ कृत्वा ॥ ३ आविर्भावतिरोभाव ।। ४ व्यापार || ५ सहकारिणामभावे व्यापार- 25 स्याप्यभावः । कुशूलस्थस्यापि बीजस्य व्यापार श्वेदङ्गीकृतः सहकारिणामपि प्रसङ्गः ॥ ६ सहकारिसन्निधानसद्भावेन ॥७ ३' विग्रहे तृतीयान्तम् ] ॥ ८ यद् यदन्वयव्यतिरेकानुविधायि तत् तत्कार्यम् , यथा मृदन्वयम्यतिरेकानुविधायि घटादि मृत्कार्यम् ॥ ९ व्यापारः ॥ १० कारणस्य ।। ११ हेतुसहकारिद्वय ॥ १२ ५' [-पञ्चम्यन्तम् ] ॥ १३ तत् प्रतिक्षणं कनिद्विकारिण एवार्थक्रिया ॥ १४ एकान्तभणिकेऽपि तदयोगात् ॥ १५ निरम्पयनाशिनः कारिपत्यभावात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org