________________
१६९
उत्पाद-व्यय-ध्रौव्यसाधनम् । एवं तर्हि पालगन्यामपि दोहसामर्थ्यमस्तु, गोप्रत्ययोत्पादकत्वादन्ते दोहदर्शनाञ्च । तथा च भवादृशा रन्ध्रान्वेषिणस्तदुग्धपानादोजस्विनो भवन्तु येन सूचिप्रवेशेऽपि मुसलं प्रवेशयितुमीशते । ननु बालगव्येव विजातत्वविशेषवती दोहं ददाति,
ततः को व्यभिचारः । एवं तर्हि कुशूलावस्थमेव बीजमुच्छूनावस्थामवाप्याड्डुरमुत्पाद55A यतीत्यत्र किमवद्यम् । न हि वयं बौद्धा इवैकान्तक्षणिकं वस्तु प्रतिपनीपद्यामहे स्म, 5
कथञ्चिदन्वयस्याप्यनुज्ञानात् । अत्रैव तु विप्रतिपत्तिः-त्वं व्यतिरिक्तसहकारिसभिधानलक्षणं विशेष प्रत्यशृणोः, वयं तु बीजस्वरूपनिवेशिनमभ्युपागमाम । तत्र वयं विजयिनः, अधिज्यधन्वनः प्रत्यक्षस्यास्मत्पाक्षिकत्वात् व्यतिरिक्तसहकारिसभिधानातिरिक्तस्यावयवशैथिल्यापरनाम्नो बीजस्वरूपाभिन्नस्योच्छ्रनत्वविशेषस्य पामरैरपि प्रत्यक्षलक्ष्यत्वात् । तथा प्रसङ्गविपर्यये यद्यडरप्रयोजकत्वं क्षित्यादिसन्निधाषिव साक्षात् 10 साध्यते नदा प्रत्यक्षबाधा, अथ परम्परया तदा सिद्धसाध्यता । न चैवं भवतामन्वयसिद्धिभिन्नस्यापि परम्पराकारणत्वात् , तस्मात् प्रसङ्गोऽपि प्रसङ्गविपर्ययोऽपि न नित्यैकान्ततां साधयति कथश्चिन्नाशवादिन इति ।
क्षित्यादिसन्निधौ याति बीजं शैथिल्यविक्रियाम् । प्रमाणं जगदित्यत्र न वयं पक्षपातिनः ॥ १ ॥ तथापि तार्किकम्मन्याः केचिदाहुरिंदं बुधाः । साहित्यमेव साहाय्यं सहायानां न विक्रिया ॥२॥ क्षणिकैकान्तसिद्धान्ते वीजैमडरकारणम् ।
स्थाने साधयितुं नाऽस्मास्वन्वयस्यानुमन्तुसु ॥ ३ ॥ इति यत् पुनाहियत-"विवादाध्यासितं बीजं सहकारिवैकल्यप्रयुक्ताङ्करादि- 20 कार्यवैकल्यम् , तेंदुत्पत्तिनिश्चयविषयीभूतबीजजातीयत्वात् , यत् पुनः सहकारिवैकल्यप्रयुक्ताकुरादिकार्यवैकल्यं न भवति न तदेवंम्भूतबीजजातीयं यथा शिलाशकलम् " [ ] इति, तदाकर्णनमपि नार्हति, अनैकान्तिकत्वात् । समवहितक्षित्यादिकं हि बीजमङ्कुरोत्पादात् सहकारिवैकल्यप्रयुक्ताकुरादिकार्यवैकल्यं न भवति, अथ चैवम्भूतवीजजातीयमिति ।।
___ तथा यदपि चावादि-"कि तस्य सहकारिणा क्रियते ? न किश्चित् । कि तहि ? तत्सद्भावे कार्यमेव, अन्यथा हि सहकारित्वायोगात् । यदिवा तस्य १ सहितानां मिलितानां भावः ॥ २ कुशूलस्थम् ॥ ३ युक्तम् ॥ ४ कुशूलस्थम् ॥ ५ तस्य अङ्कुरस्योत्पत्तिः, तस्या निश्चयः ॥ ६ अपि तु स्वरूपेण यद् यनननविकलं न तत् तज्जातीय यथा शिलेति ॥ ७
3c
550
25
25
अकरोत्पत्तिनिश्रयविषयीभूतबीजजातीयम् ॥
२२
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org