________________
53B
स्थोपाटीकासहित द्रव्यालङ्कार तृतीये प्रकाशे कुर्वतोऽपि यतो हेतोर्यत् कार्य नैव जायते । शक्तः स तस्मिभित्येतत् सन्निपातान्वितं वचः ॥ द्रव्यतो 'नित्यरूपाणां पर्यायविगमोदयः । नाशोत्पादान् प्रपद्यन्ते भावानां सर्वदर्शिनः ॥ अविरोधे कालभेदात् सामर्यादेः प्रकल्पिते । धर्मिनाशो निरुद्धः स्यान्न पुनः पर्ययव्ययः ॥ रूप-गोचरयोरक्ये सामर्थ्यादेविरोधके ।
सिद्धे कालैकता पुण्यात् कैमर्थ व्यभिचारिणी ॥ इति । यदपि चात्रान्तरे कुसलमूलावस्थितस्य बीजस्याङ्करं प्रत्यसामर्थ्यवादिनं वादिनमाश्रित्याभ्यधायि, यथा-"यदङ्करं प्रत्यप्रयोजकं न तबीजजातीयं यथा शिला- 10 शकलम् , अडुरं प्रत्यप्रयोजकं च कुमूलनिहितं वीजमभ्युपगतं परेरिति व्यापकानुपलब्धिः प्रसङ्गहेतुः । वीजत्वं तस्य प्रत्यक्षसिद्धमशक्यापहवमिति चेत् , अस्तु तर्हि विपर्ययः-यदी तदङ्करं प्रति प्रयोजकम् , यथान्त्यसामग्रीमध्यमध्यासीनम् । बीजं चंद विवादपैदेमिति स्वभावहेतुः" [ ] इति ।
तदपि नातिचतस्रम् । तथाहि-किमिदं बीजजातीयत्वम् ? यद्युभयसम्मतसामर्थ्येन प्राप्तोच्छनावस्थेन बीजेन सादृश्यमुच्यते, तनिषेधोऽभीष्ट एव, उच्छ्नत्वा- 15 भावस्य कुमूलस्थिते बीजे प्रत्यक्षसिद्धत्वात् । अथ बीजमेतदिति प्रत्ययजनक बीजजातीयत्वमातिष्टसे तर्हि तनिषेधो न शक्यक्रियः, प्रत्यक्षबाधितत्वात् । न
चैतावता विपर्ययः सिध्यति । न वै गौगोप्रत्ययं प्रति समर्थों दोहं प्रत्यपि समर्थायते, वन्ध्यगवीमिर्व्यभिचारात् । ततो यथा गोप्रत्ययं प्रति समर्था अपि न सर्वा एव गावो दोहमर्हन्ति । किं नाम? अबान्तरविशेषविशिष्टा एव काश्चन । तथा वीजमपि 20 न यावत् सर्व बीजप्रत्ययमुपजनयितुमलं तावदकुरमपि, किं नाम ? उच्छ्नत्वविशेषसमलाकृतं किञ्चिदेव ।।
ननु बन्ध्यगवीषु गोप्रत्ययसामर्थ्य न कदाचिदपि दोहसामर्थ्यनान्तरीयकं 54B साक्षादक्रियत । ततस्तासु व्यभिचारोऽस्तु । बीजे पुनः क्षित्यादिसभिधौ बीज
प्रत्ययोपजनकत्वमडरोपजनकत्वाविनाभावि व्यभाव्यत । ततः सर्वावस्थास्वपि 25 तथैव निश्चीयत इति । १ स्थितिमताम् ।। २ ६' षष्ठयन्तम् ॥ ३ कायें ॥ ४ सती ॥ ५ बौदम् ॥ ६ नैयायिकैः ॥ ७ बौदैः ।।। ८ कुसूलस्थस्य बीजस्य ॥ ९ बौद्धवचनम् ॥ १० नैयायिक आह-सर्वोऽपि प्रसङ्गो विपर्ययनिष्ठो यतः ।। ११ कुसूलस्थमित्यर्थः ।।
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org