________________
उत्पाद-व्यय-ध्रौव्यसाधनम् । अपि च, य: कालाभेदः सन्नपि 'रूप-विषययोर्भदे व्यभिचारात् सामर्थ्यादीनां विरोध नाविर्भावयति स कथमात्मनिवृत्या तेषां विरोधमभावयेत् ।
ननु रूप-गोचरभेदापेक्षः कालभेदो विरोधमभावयत्येव । न खलु रूप-कालगोचर(रा?)भेदे क्वचिदपि व्यभिचारोऽस्ति । न चेन्धनरहिनो वह्निन धूमे कारणमिति सेन्धनोऽपि न कारणम् । एवं तर्हि रूप-गोचराभेदावेवासाताम् , कृतमन्तर्गडुना कालाभेदेन, तयोः सर्वत्राव्यभिचारात् । अस्त्येव कालभदे बीज एव व्यभिचार इति 5 चेत् , अहह विवादाध्यासितेनैव व्यभिचारमुद्भावयतस्तत्रभवतो भवतो न्यायनैपुणम् ,
कालभेदे" हि बीजे विरोधो विचारयितुमारब्धोऽस्ति, ततः कथं तत्रैव व्यभिचार53A मुद्भावयसि । यदि पुनर्यथाऽस्माभी रूप-गोचरभेद कालभेदस्य "व्यभिचारो विवादपदा
दन्यत्र दर्शितस्तथा रूप-गोचराभेदयोरपि दर्शयसि तदा त्वमेवासि नैयायिकप्रकाण्डम् । 10 ___ तदयं वस्तुसङ्क्षपः । भावस्य सामर्थ्या-ऽसामदियुगपदेकविषयत्वमेकरूपत्वं च विरोध प्रयोजकम् । स्वरूपभावाभावयोः पुनरेकदेशत्वमेवे' । अत ऎवो(वे ?)हस्थं बीजं देशान्तरस्थं स्वाभावं न प्रतिक्षिपति । कालाभेदस्तूभयत्रापि व्यभिचारित्वाद् दुर्मित्रमिव सम्भाषणमात्रमपि नाहति ।
नन्वेकरूपत्वादावपि सामर्थ्यादीनि सन्ति, अङ्करं प्रत्यसैमर्थ एव हि बीजद्रव्ये 15 वीजभाववत्येव च भूतले कालान्तरेण सामर्थ्यस्य बीजाभावस्य च जैनैरेयोपगमात् । न सन्ति । बीज-भृतलद्रव्ययोरेकान्तेनैक्याभावात् , पर्यायनाशे द्रव्यस्यापि कथश्चिनाशात् । एकान्तेनेकरूपत्वादेश्च सामर्थ्यादीनां विरोधकत्वात् । एतावत्तु परस्य वक्तुमवशिष्यते-रूप-गोचरभंदवत् कालभेदोऽपि किन्नाविरोधक इति । तत्र प्रमाणाभावादिति ब्रूमः । रूप-गोचरभेदे तु प्रत्यक्षमेव प्रमाणम् । तस्मात् सामर्थ्यादीनां 20 विरोधोऽस्ति । तथा च समर्थासमर्थयोद एवेति ।
१ स्वरूप ।। २ विरोधस्य ॥ ३ विरोधस्वाभाव कुर्यात् ।। ४ कारणस्य ॥ ५ * • काला भेदो' इति पूर्व लिखितमासीत . पश्चातु ग्रन्थकारेण व धृष्ट्या 'कालभेदो' इति पाठोऽत्र विहितः ॥ ६ - "कालगोचराभेदे इति पूर्व लिखितमासीत् , किन्तु ग्रन्थकारणव पथात् सम्यग वृष्ट्वा कालगोचर भेदे' इति पाठोऽत्र विहितः । 25 इदं तु ध्येयम् -पूर्व लिखितः । कालगोचराभेदे' इति पाठः समीचीन एवं भाति, तथापि ग्रन्थकता प्रष्ट्वा किमर्थ कालगोचरभेदे' इति पाठो विहितस्तद् वयं न जानीमः ।। ७ आचा[यः] ।। ८ १' [प्रथमान्तम् ] ।। ९ रूपगोचराभेदयोः ।। १० सति ॥ ११ विरोधस्य ।। १२ करण. अकरण ।। १३ विरोधे प्रयोजकम् ॥ १४ - 'उहस्यम्' इत्यस्य अर्थो न ज्ञायते । 'इहस्थम्' इति पाठः कल्पनीयो भाति ।। २५ ७' [=सप्तम्यन्तम् ॥
30
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05