________________
स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे नन्वस्तु पूर्व भावस्य सामर्थ्य कार्य निष्पत्तौ चासामर्थ्यमप्यस्तु तथापि न 51B विरुद्धधर्माध्यासेन 'भेदः, विरोधाभावात् । यदा यत् कार्य प्रति सामय तदैव हि
तत् कार्य प्रत्यसामर्थ्य परस्पराभावरूपत्वाद् विरुद्धम् । न पुनरन्यदा । समवहितसंहकारिणश्च भावस्य प्रथममसति कार्ये सामर्थ्य सति च पश्चादसामर्थ्यम् । न चानयोविरोधः, कालभेदात् । अथवा यथा बीजेन स्वभावदेश एव स्वाभावः प्रतिक्षिप्यते 5 न देशान्तरेऽपि तथैवासामर्थ्यमपि सामर्थ्यकाल एव प्रतिक्षिप्यते न कालान्तरेऽपि । ततो यदि नाम कुमूलस्थं बीजमसमर्थ क्षेत्रस्थं च समर्थ तथापि नानयोर्भेदः, भिन्नदेशयोर्भावाभावयोरिव मित्रकालयोः सामर्थ्यासामर्थ्ययोरविरोधात् । अविरुद्धधर्माध्यासेनापि भेदेऽतिप्रसङ्ग इति ।
तत् किनयमास्माकीनः कूटस्थनित्यताभङ्गोपन्यासप्रयासः परस्परविरुद्धधर्मा- 10 ध्यासेन भावानामेकान्तक्षणिकताप्रसाधनपर्यवसानस्त्वया व्यबोधि येन विरोधपरिहारोपायं कालभेदम् उपकल्पितवानसि । वयं हि द्रव्यतया नित्यस्यैव भावस्य
समर्थत्वपर्यायापगमेन नाशित्वमाचक्ष्महे । ततो नाम भिन्नकालयोः सामर्थ्यासामर्थ्य524 योविरोधो मा भूत , तदभावामिभेदोऽपि मा प्रसासीत् । समर्थत्वपर्यायापगम
श्वेदङ्गीकृतस्तावतापि कूटस्थनित्यताभङ्गप्रवणोऽस्मदुपन्यासप्रयासः साफल्यमगात् , 15 पर्ययरूपतयैव द्रव्यस्योत्पाद-विनाशाभ्युपगमात् । .
अथवा विरुद्धधर्माध्यासोऽपि समर्थ्यते । भिन्नविषयाणां सामर्थ्यासामर्थ्यकरणाकरणादीनां विरोधोक्तावुभयसम्प्रतिपन्नो व्यभिचारो दृष्टः । एकस्यैव वीनस्याडुरं प्रति सामर्थ्य करणं च तदैव शिलाशकलं प्रत्यसामर्थ्यमकरणं च, ततोऽमीषां विरोधकारणमेकविषयत्वमुच्यते । सत्यपि चैकविषयत्वे भिन्नरूपाणौमुभयसम्प्रतिपनो 20 विरोधैव्यभिचारो दृष्टः । बीजस्याङ्करं प्रति सामर्थ्य करणं च तदैव शिलाया असामर्थ्यमकरणं च । ततः सामर्थ्यादीनां विरोधकारणमुभयमेकविषयत्वमेकरूपत्वं
चोच्यते । एतयोः पुनः सतोः कालभेदेऽपि न क्वचिदुभयसम्प्रतिपन्नो व्यभिचारो52B ऽस्ति "येन कालाभेदोऽपि सामर्थ्यादीनां विरोधकारणमाद्रियते, तथा च तन्निवृत्तौ
विरोधोऽपि निवर्तेत ।
25
१ सामासामर्थ्यरूपेण || २ पदार्थस्य ॥ ३ सन्निहित ।। ४ सामर्थ्यासामर्थ्ययोः ।। ५ आ[चार्यः] ।। ६ विरोधाभावात् ॥ ७ कालभेदेऽपि सामर्थ्यासामर्थ्ययोः सतोः पदार्थस्य भेदः समर्थ(य)त इत्यर्थः ॥ ८ भिन्नो विषयो गोचरो येषां सामर्थ्यादीनाम् ॥ ९ अवमानतोक्तौ ।। १० सामर्थ्यासामध्यकरणाकरणानाम् ॥ ११ अङ्कुरलक्षणे कार्ये ॥ १२ कारणानां जनकानामित्यर्थः ।। १३ विरोधाभावः ॥ १४ एकविषयत्वेकरूपत्वयोः ।। १५ सामर्थ्यादीनां विरोधोऽस्त्येवेत्यर्थः ।। १६ व्यभिचारादर्शनेन विरोधदर्शनेनेत्यर्थः ।। १७ कालाभेदनिवृत्तौ ।। 30
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05