Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 242
________________ उत्पाद-व्यय-ध्रौव्यसाधनम् । १७७ 'हिर्यस्माद् विशिष्टोऽपि स्वभावोऽग्नेधूमस्य च स्वपरिनिष्ठो धूममाग्न चावधिमनपेक्ष्य न युक्तः । मा भूदविशिष्ट इति हेतोः । अग्नेधूमस्य च कारणत्वमानं कार्यत्वमात्रं च विशिष्टः स्वभावो न वक्तव्यः, किं त्वग्नि-धूमावैधिरेव सन् , निर्विशेषणस्य विशिष्टत्वाभावात् , कारण-कार्यत्वमात्रग्रहणेऽपि फलाभावाच । यदि ह्यग्नेधूमकारण64B त्वं धूमस्य चाग्निकार्यत्वं गृहीतं स्यात् तदाग्निधूमयोः कार्यकारणभावः सिध्येद्धम- 5 दर्शनाचाग्निरनुमीयेत, न चैतत् कारण-कार्यत्वमात्रावगमे सिध्यतीति फलाभावः । ततोऽग्नि-धूमावधिक एव स्वभावो विशिष्टो वक्तव्यः । स च स्वपरिनिष्ठो न भवति, अवध्यपेक्षत्वात् । अतश्च वस्तुसामर्थ्य भाव्यपि निर्विकल्पकमग्नेधूमस्य च कारणत्वमानं कार्यत्वमात्रं च गृह्णीयात्, धूमकारणत्वमग्निकार्यत्वं च ग्रहीतुमशक्तमेव 'विनाशा-ऽनुत्पादाभ्यामग्नि-धूमयोरसन्निहितत्वात् । 10 ननु पितरं पुमांसमालोकयल्लोकः पुत्राग्रहणेऽपि निर्विकल्पकधिया पितृत्वं गृह्णात्येव । तन्त्र । अगृहीतपुत्रस्य पितर्यपि पुंसि पुंस्त्वमात्रग्राहिकाया एव धियः संवेदनात् । नन्वेवं यदि सदपि धूमकारणत्वमग्निकार्यत्वं चाग्निधूमयोरवध्यग्रहणे निर्वि65. कल्पकं न गृह्णीयात्तदाऽस्य वस्तुसामर्थ्यभावित्वेन यत् सामग्राहित्वं तद्धीयतेति । तन्न । यतः को वै मन्यते यत् सकलुषपुरुषविज्ञानानि सर्वात्मना स्वविषयानवगच्छ- 15 न्तीति ? सर्वज्ञज्ञानस्यैव तंत्र सामर्थ्यात् । ततो यद्यग्नि-धूमयोः सदपि सावधि कारणत्वं कार्यत्वं च निर्विकल्पकं न परिच्छिनत्ति तथापि न दोषः । एवं तर्हि गृहीतागृहीतांशयोर्भेदेन वस्तुनोऽनेकत्वप्रसङ्गः स्यात् । अस्तु नाम, कथञ्चिदनेकत्वस्यापीष्टत्वात् , धर्म-धर्मिणोः कथञ्चिद् भेदात् । तस्मादन्वयिन 'ऐकस्याभावे प्रत्येकं स्वगोचरमात्रसंवेदनाद् युक्तिसहस्रैरपि कार्यकारणभावावगमो न सङ्गच्छते । 20 स्यादेवम्-अग्नेधूमस्य च ग्राहकेण स्वस्मिन् स्वस्मिन् विषये परिच्छिन्ने सति 653 यो विकल्पो जायते स कार्यकारणभावं व्यवस्थापयति, पूर्वज्ञो द्वयाहितसंस्कार वशोत्पादेन तस्य युगपदग्नि-धूमद्वयविकल्पनसामर्थ्यादिति । तदसङ्गतम् , यतोऽनुभवेन निर्विकल्पकेनाऽविदितं च विकल्पयन् विकल्पः कथमुपादेयः प्रेक्षावतां प्रमाण १ विशिष्टोऽपि हि स्वभावो नादवधिः ॥ २ एतदेव वैशिष्ट्य यदनिर्धमावधिः, धूमो वयवधिः॥ 25 ३ अमः ॥ ४ धूमस्य ॥ ५ धमकाले वढेविना ॥ ६ वह्निकाले धूमस्यानुत्पादात् ॥ ७ • "यल्लोकः' इति हस्तलिखितादर्श पाठः ॥ ८ स्वरूप ॥ ९ '६' [-विग्रहे षष्ठयन्तम् ] ।। १० सर्वात्मना विषयग्रहणे ।। ११ ग्राहकस्य ॥ १२ धूमशान-वह्निशान ॥ १३ विकल्पस्य ॥ १४ अनुभवाविदितं च विकल्पयन् विकल्पः कथमुपादेयः स्यात् ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318