Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 238
________________ उत्पाद-व्यय-धौम्यसाधनम् । एवं चैतदपि' प्रत्याख्यायि-"अतेदात्मत्वेऽपि क्षीरस्य स तस्य स्वभावो यो दधिजननो न शशविषाणजननः । स तस्य कुत इति चेत , स्वहेतुसमुत्थ इत्यनादिहेतुपरम्परा" [ ] इति । नियतदर्शनं नियतोत्पादाविवादे नियतशक्तिमवगमयेत् । स्यादेवम्-असत्चाविशेषेऽपि तावत् प्रतिनियतस्यैवोत्पादो दृश्यते, अतोऽवध्य- 5 भावेऽपि कारणानां प्रतिनियतकार्योत्पाद एव शक्तिरनुमीयते। कार्यकसमधिगम्या प्रतीन्द्रियाः कारणशक्तयो न विचारकविचारवशतो लक्षयितुं शक्यन्त इति । न । नियंतेति । नियतं कार्यमुत्पद्यमानमुपलम्य कारणस्य प्रतिनियतकार्यजननशक्तिरवMA गम्येतापि यदि नियतोत्पादो निर्विवादो भवेत् । किन्तु नियतोत्पाद एवासत्कार्य वादे चिन्तनीयोऽस्ति, असत्त्वाविशेषात् सर्वस्योत्पादप्रसङ्गात् । ततः कथं नियतो- 10 त्पादः सविवादः कारणस्य नियतशक्तिमवगमयेत् , मशकवत्तिरूपेण सन्दियमानाद् धमादपि धूमध्वजानुमानप्रसङ्गात् । किञ्च, यदि सर्वथाप्यसत्कार्य तदा कारणस्य कारणत्वमपि न प्रामोति कार्यापेक्षित्वात्तस्य, कारणस्य सर्वथाप्यसत्वे भावकार्यत्ववत् , तदपेक्षित्वात्तस्य । कार्यजन्मनि तु कारणत्वाभ्युपगमेऽकारणादुत्पत्तिः स्यादिति । सम्प्रति परोपहासकरणाय पाह 15 उत्पत्तिर्भावसत्तैव । नास्याः प्रतिपत्ताऽस्ति । किन्तु कुतोऽप्यतर्कितेयमुपलभ्यत इति । क एवं वादी सम्भवति ? मुहुमुहुः प्रपीयमानातिस्निग्धदुग्धरसोपचयोपचिताजीर्णदोषेणाऽपि नाम भिक्षुः सम्भवति । केनचिदात्मना हि सन् शक्येतात्मनि कमपि विशेषमाधातुम् । सर्वथा निरुपारव्यस्तु के रूपहेतुनियम- 20 मुपादित्सेत ? पर्यायोत्पत्तः द्रव्यं सदवधेः । ___ उत्पत्तिरिति । यैव भावानां सत्ता सैवोत्पत्तिः,न पुनः सत्तातोऽधिकोत्पत्तिक्रिया काचिदस्ति । अस्या भावसत्तारूपाया उत्पत्तेः प्रतिपत्ता य एनामुत्पत्तिमुपश्लिष्यति स नास्ति, किन्तु कुतोऽपि कारणविशेषादतर्किताऽज्ञाता इयमुत्पत्तिरुपलभ्यते । के एव१ बौद्धोक्तम् ॥ २ अदध्यारमत्वेऽपि ॥ ३ क्षीरस्य ॥ ४ नियतदर्शनं नियतोत्पादाविषादे नियत- 25 शक्तिमत्रगमयेत् ॥ ५ पदार्थस्य ।। ६६' [=षष्ठन्तं विग्रहे] || ७ भावस्य कार्यत्वं न प्राप्नोति यथा ॥ ८ कारण ॥ ९ उत्पत्तिर्भावसत्तेव, नास्याः प्रतिपत्तास्ति, किन्तु कुतोऽपि अतर्कितेयमुपलभ्यत इति ॥ १० क एवं धादी सम्भवति १ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318