Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 231
________________ स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे नन्वस्तु पूर्व भावस्य सामर्थ्य कार्य निष्पत्तौ चासामर्थ्यमप्यस्तु तथापि न 51B विरुद्धधर्माध्यासेन 'भेदः, विरोधाभावात् । यदा यत् कार्य प्रति सामय तदैव हि तत् कार्य प्रत्यसामर्थ्य परस्पराभावरूपत्वाद् विरुद्धम् । न पुनरन्यदा । समवहितसंहकारिणश्च भावस्य प्रथममसति कार्ये सामर्थ्य सति च पश्चादसामर्थ्यम् । न चानयोविरोधः, कालभेदात् । अथवा यथा बीजेन स्वभावदेश एव स्वाभावः प्रतिक्षिप्यते 5 न देशान्तरेऽपि तथैवासामर्थ्यमपि सामर्थ्यकाल एव प्रतिक्षिप्यते न कालान्तरेऽपि । ततो यदि नाम कुमूलस्थं बीजमसमर्थ क्षेत्रस्थं च समर्थ तथापि नानयोर्भेदः, भिन्नदेशयोर्भावाभावयोरिव मित्रकालयोः सामर्थ्यासामर्थ्ययोरविरोधात् । अविरुद्धधर्माध्यासेनापि भेदेऽतिप्रसङ्ग इति । तत् किनयमास्माकीनः कूटस्थनित्यताभङ्गोपन्यासप्रयासः परस्परविरुद्धधर्मा- 10 ध्यासेन भावानामेकान्तक्षणिकताप्रसाधनपर्यवसानस्त्वया व्यबोधि येन विरोधपरिहारोपायं कालभेदम् उपकल्पितवानसि । वयं हि द्रव्यतया नित्यस्यैव भावस्य समर्थत्वपर्यायापगमेन नाशित्वमाचक्ष्महे । ततो नाम भिन्नकालयोः सामर्थ्यासामर्थ्य524 योविरोधो मा भूत , तदभावामिभेदोऽपि मा प्रसासीत् । समर्थत्वपर्यायापगम श्वेदङ्गीकृतस्तावतापि कूटस्थनित्यताभङ्गप्रवणोऽस्मदुपन्यासप्रयासः साफल्यमगात् , 15 पर्ययरूपतयैव द्रव्यस्योत्पाद-विनाशाभ्युपगमात् । . अथवा विरुद्धधर्माध्यासोऽपि समर्थ्यते । भिन्नविषयाणां सामर्थ्यासामर्थ्यकरणाकरणादीनां विरोधोक्तावुभयसम्प्रतिपन्नो व्यभिचारो दृष्टः । एकस्यैव वीनस्याडुरं प्रति सामर्थ्य करणं च तदैव शिलाशकलं प्रत्यसामर्थ्यमकरणं च, ततोऽमीषां विरोधकारणमेकविषयत्वमुच्यते । सत्यपि चैकविषयत्वे भिन्नरूपाणौमुभयसम्प्रतिपनो 20 विरोधैव्यभिचारो दृष्टः । बीजस्याङ्करं प्रति सामर्थ्य करणं च तदैव शिलाया असामर्थ्यमकरणं च । ततः सामर्थ्यादीनां विरोधकारणमुभयमेकविषयत्वमेकरूपत्वं चोच्यते । एतयोः पुनः सतोः कालभेदेऽपि न क्वचिदुभयसम्प्रतिपन्नो व्यभिचारो52B ऽस्ति "येन कालाभेदोऽपि सामर्थ्यादीनां विरोधकारणमाद्रियते, तथा च तन्निवृत्तौ विरोधोऽपि निवर्तेत । 25 १ सामासामर्थ्यरूपेण || २ पदार्थस्य ॥ ३ सन्निहित ।। ४ सामर्थ्यासामर्थ्ययोः ।। ५ आ[चार्यः] ।। ६ विरोधाभावात् ॥ ७ कालभेदेऽपि सामर्थ्यासामर्थ्ययोः सतोः पदार्थस्य भेदः समर्थ(य)त इत्यर्थः ॥ ८ भिन्नो विषयो गोचरो येषां सामर्थ्यादीनाम् ॥ ९ अवमानतोक्तौ ।। १० सामर्थ्यासामध्यकरणाकरणानाम् ॥ ११ अङ्कुरलक्षणे कार्ये ॥ १२ कारणानां जनकानामित्यर्थः ।। १३ विरोधाभावः ॥ १४ एकविषयत्वेकरूपत्वयोः ।। १५ सामर्थ्यादीनां विरोधोऽस्त्येवेत्यर्थः ।। १६ व्यभिचारादर्शनेन विरोधदर्शनेनेत्यर्थः ।। १७ कालाभेदनिवृत्तौ ।। 30 For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_05

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318