Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 215
________________ १५० स्वोपाटीकासहित द्रव्यालङ्कारे तृतीये प्रकाशे पुनः किं निबन्धनमिति । अत्राह-आत्मनि तु आकाशदेशश्रेणीनां पुनः पूर्वादिप्रत्ययः 'स्वरूपनिवन्धन एव, आकाशदेशश्रेणीनां यत् स्वं रूपं तन्निमित्त एव । आकाशश्रेणयो हि स्वस्मिन् परस्मिश्च द्रव्ये पूर्वादिप्रत्ययमुत्पादयितुमलम् , तथा288 भृतस्वभावत्वात् , स्व-परप्रकाशकविज्ञानवत् , स्व-परानुगतप्रत्ययहेतुसामान्यवद्वा । ततो मूर्नद्रव्येष्वाकाशदेशश्रेणिनिवन्धनाः पूर्वादिप्रत्ययाः, आकाशश्रेणिषु पुनः स्वरूप- 5 निबन्धनाः । ननु यद्याकाशदेशश्रेणिषु स्वरूपनिबन्धन एव प्रत्ययः स्यात्तदा प्रत्ययपरावृत्तिन स्यात् । अस्ति चेयम् । तदुक्तम् "प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिणः ।" [ ] इति । ततस्तास्वपि मूर्तद्रव्येष्विव कारणान्तरनिबन्धनः पूर्वादिप्रत्ययस्तथा चानवस्थेति । 10 तन, यस्माद्यद्देशावस्थितस्य पुरुषस्य यदाकाशदेशश्रेण्यां यः पूर्वादिप्रत्ययः प्रादु र्भवति न तद्देशावस्थितस्यैव तस्यामेवाकाशश्रेण्यां तस्य प्रत्ययस्य व्यत्ययोऽस्ति । 29A तत् कुतः प्रत्ययपरावृत्तिर्यतः कारणान्तरकल्पनेनानवस्था भवेत् । अन्यदेशस्थस्य तु पुंसः प्रत्ययपरावृत्तिरस्ति । न चासौ दोषाय, पूर्वप्रवृत्तप्रत्ययहेतुभूतायाः श्रेणेः सहकार्यन्तरापेक्षयाऽन्यदेशस्थं पुरुषं प्रत्यन्यप्रत्ययहेतुत्वात् । 15 ननु यथाऽऽकाशदेशश्रेणिषु स्वरूपनिबन्धनः पूर्वादिप्रत्ययो न कारणान्तरापेक्षस्तथा मूर्तद्रव्येष्वपि किं नेष्यते ? किमित्याकाशदेशश्रेणयो दिक्त्वेन कल्प्यन्त इति । अत्राह-'पूर्वस्यामिति । पूर्वस्यां दिशि पृथिव्यादिद्रव्यं वर्तते इत्यमुना प्रकारेण व्यप298 देशाद् व्यवहारदर्शनात् श्रेणिकल्पनाऽवश्यंभाविनी । अवश्यमाकाशदेशश्रेणयो दिक्त्वेन कल्पनीयाः । अयमर्थः-पूर्वस्यां दिशि द्रव्यमिति व्यपदेशस्यान्यथानुपपन्या कश्चित् 20 पदार्थोऽवश्यमाधारविभक्तेः प्रकृतिदिक्त्वेनोपकल्पयितव्यः । स चाकाशदेशश्रेणय एवास्माकं मतेन । एवं च यदि तनिबन्धनो मूर्त्तद्रव्येषु पूर्वादिप्रत्ययो भवेत्तदा को दोषः स्यात् । ऐकंत्र हि पदार्थपरिकल्पनं चेदअसा सोपयोगं तदान्यत्र गतार्थत्वेऽपि न किश्चिदपि शूयते । तस्मादाकाशप्रदेशश्रेणयः स्वपरत्र पूर्वादिप्रत्ययनिबन्धनं दिशः। अपरः पुनः प्राह-एकमेव दिगद्रव्यं व्यापि निरवयवं च, तच्च तत्तत्सहकारि- 25 १ आत्मनि तु स्वरूपानबन्धन एव ।। २ आदित्योदयापेक्ष यदाकाशदेशश्रेणिस्वरूपं तदेव निमित्तं नान्यद् दिगन्तरादि । कोऽर्थः १ आकाशदेशश्रेणिरेवादित्योदयादिविशिष्टा सती पूर्वादिप्रत्ययहेतुरिति ॥ ३ पूर्वादिदिश्वपि ॥ ४ '७' [-सप्तम्यन्त विग्रहे] । यस्याम् ॥ ५ पूर्वादि ।।६ पूर्धस्यां दिशि द्रव्यमिति व्यपदेशाच्छेणिकल्पनाऽवश्यंभाविनी ।। ७ '६' षष्ठयन्तम् ] ॥ ८ कारणम् ।। ९ दिमि ।। १. 'पूर्वस्यां दिशि द्रव्यम्' इति व्यवहारे ॥ ११ दिशां स्वरूपनिवन्धने(नत्वे ?)ऽपि ॥ 30A 30 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318