________________
१५०
स्वोपाटीकासहित द्रव्यालङ्कारे तृतीये प्रकाशे पुनः किं निबन्धनमिति । अत्राह-आत्मनि तु आकाशदेशश्रेणीनां पुनः पूर्वादिप्रत्ययः 'स्वरूपनिवन्धन एव, आकाशदेशश्रेणीनां यत् स्वं रूपं तन्निमित्त एव ।
आकाशश्रेणयो हि स्वस्मिन् परस्मिश्च द्रव्ये पूर्वादिप्रत्ययमुत्पादयितुमलम् , तथा288 भृतस्वभावत्वात् , स्व-परप्रकाशकविज्ञानवत् , स्व-परानुगतप्रत्ययहेतुसामान्यवद्वा ।
ततो मूर्नद्रव्येष्वाकाशदेशश्रेणिनिवन्धनाः पूर्वादिप्रत्ययाः, आकाशश्रेणिषु पुनः स्वरूप- 5 निबन्धनाः ।
ननु यद्याकाशदेशश्रेणिषु स्वरूपनिबन्धन एव प्रत्ययः स्यात्तदा प्रत्ययपरावृत्तिन स्यात् । अस्ति चेयम् । तदुक्तम्
"प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिणः ।" [ ] इति । ततस्तास्वपि मूर्तद्रव्येष्विव कारणान्तरनिबन्धनः पूर्वादिप्रत्ययस्तथा चानवस्थेति । 10 तन, यस्माद्यद्देशावस्थितस्य पुरुषस्य यदाकाशदेशश्रेण्यां यः पूर्वादिप्रत्ययः प्रादु
र्भवति न तद्देशावस्थितस्यैव तस्यामेवाकाशश्रेण्यां तस्य प्रत्ययस्य व्यत्ययोऽस्ति । 29A तत् कुतः प्रत्ययपरावृत्तिर्यतः कारणान्तरकल्पनेनानवस्था भवेत् । अन्यदेशस्थस्य तु
पुंसः प्रत्ययपरावृत्तिरस्ति । न चासौ दोषाय, पूर्वप्रवृत्तप्रत्ययहेतुभूतायाः श्रेणेः सहकार्यन्तरापेक्षयाऽन्यदेशस्थं पुरुषं प्रत्यन्यप्रत्ययहेतुत्वात् ।
15 ननु यथाऽऽकाशदेशश्रेणिषु स्वरूपनिबन्धनः पूर्वादिप्रत्ययो न कारणान्तरापेक्षस्तथा मूर्तद्रव्येष्वपि किं नेष्यते ? किमित्याकाशदेशश्रेणयो दिक्त्वेन कल्प्यन्त इति ।
अत्राह-'पूर्वस्यामिति । पूर्वस्यां दिशि पृथिव्यादिद्रव्यं वर्तते इत्यमुना प्रकारेण व्यप298 देशाद् व्यवहारदर्शनात् श्रेणिकल्पनाऽवश्यंभाविनी । अवश्यमाकाशदेशश्रेणयो दिक्त्वेन
कल्पनीयाः । अयमर्थः-पूर्वस्यां दिशि द्रव्यमिति व्यपदेशस्यान्यथानुपपन्या कश्चित् 20 पदार्थोऽवश्यमाधारविभक्तेः प्रकृतिदिक्त्वेनोपकल्पयितव्यः । स चाकाशदेशश्रेणय एवास्माकं मतेन । एवं च यदि तनिबन्धनो मूर्त्तद्रव्येषु पूर्वादिप्रत्ययो भवेत्तदा को दोषः स्यात् । ऐकंत्र हि पदार्थपरिकल्पनं चेदअसा सोपयोगं तदान्यत्र गतार्थत्वेऽपि न किश्चिदपि शूयते । तस्मादाकाशप्रदेशश्रेणयः स्वपरत्र पूर्वादिप्रत्ययनिबन्धनं दिशः।
अपरः पुनः प्राह-एकमेव दिगद्रव्यं व्यापि निरवयवं च, तच्च तत्तत्सहकारि- 25 १ आत्मनि तु स्वरूपानबन्धन एव ।। २ आदित्योदयापेक्ष यदाकाशदेशश्रेणिस्वरूपं तदेव निमित्तं नान्यद् दिगन्तरादि । कोऽर्थः १ आकाशदेशश्रेणिरेवादित्योदयादिविशिष्टा सती पूर्वादिप्रत्ययहेतुरिति ॥ ३ पूर्वादिदिश्वपि ॥ ४ '७' [-सप्तम्यन्त विग्रहे] । यस्याम् ॥ ५ पूर्वादि ।।६ पूर्धस्यां दिशि द्रव्यमिति व्यपदेशाच्छेणिकल्पनाऽवश्यंभाविनी ।। ७ '६' षष्ठयन्तम् ] ॥ ८ कारणम् ।। ९ दिमि ।। १. 'पूर्वस्यां दिशि द्रव्यम्' इति व्यवहारे ॥ ११ दिशां स्वरूपनिवन्धने(नत्वे ?)ऽपि ॥
30A
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org