________________
आकाशास्तिकाय साधनम् ।
१४९
हेतुत्वात् । आत्मनि तु स्वरूपनिबन्धन एव । पूर्वस्यां दिशि द्रव्यमिति व्यपदेशाच्छ्रेणिकल्पनाऽवश्यंभाविनी । परमार्थैकदिग्निमित्तत्वे तु अस्खलितः पूर्वादिप्रत्ययभेदो न स्यात् । तदाकाशप्रदेश श्रेणय एव दिग्व्यवहारनिबन्धनम् ।
दिति तस्याकाशस्य प्रदेशा निर्विभागा अंशास्तेषां श्रेणयः पद्धतयो दिश: 5 पूर्वाद्या उच्यन्ते । बहुवचनं दिश एकत्वनिषेधपेरम् । पृथक् पृथगनुपचरितप्रत्ययजनकत्वेन हि दश दिशो भवन्ति । कुतः पुनराकाशप्रदेशश्रेणिषु दिशां व्यवहार इति । उच्यते - आदित्योदयास्तापेक्षया पूर्वापरादिप्रत्ययहेतुत्वात् । आदिशब्दादक्षिणादेः 27B परिग्रहः । यस्यामाकाशप्रदेशश्रेण्यामुदयमेत्यादित्यस्तस्यां दक्षिणार्द्धभरतादिस्थितानां पुंसां पूर्वेति व्यवहार:, तेषामेव पूर्वाभिमुखानां प्रदक्षिणभागाश्रितायामाकाशदेशश्रेण्यां 10 दक्षिणेति, आदित्यास्तादान्तायामपरेति, दक्षिणव्यवहार हेतु श्रेणिसम्मुखायां चोत्तरेति, यदिवा यस्यामुत्तरत्यतिशयेनोच्चैर्वर्त्तते आदित्यस्तस्यामुत्तरेति । तदभिमुखायां तु दक्षिणेति । चतसृणां च दिशामन्तरालश्रेणिषु विदिशां व्यवहारः । तत्र पूर्वस्याव दक्षिणस्याश्वान्तराले पूर्वदक्षिणेति व्यवहियते । दक्षिणस्याश्चापरस्याश्चान्तराले दक्षिणापरेति । अपरस्यावोत्तरस्याश्चान्तरालेऽपरोत्तरेति । उत्तरस्याश्च पूर्वस्याश्चान्तराले उत्तर- 15 पूर्वेति । तेषामेवोत्तमाङ्गोपरिभागवय का शदेश श्रेणावृति व्यवहारः । पादतलाधोभागवकाशदेश श्रेणावध इति । पूर्वादीनां चोत्तरान्तानां प्रथमं मध्ये प्रतीपमुत्तरमचत्यादित्य आस्विति व्युत्पच्या प्राची अवाची प्रतीची उदीचीत्यपि संज्ञा भवन्ति । विदिशोऽपि च प्रागवाच्यादिशब्दैरुच्यन्ते । ऐन्द्रयाद्यास्तु संज्ञा इन्द्रादिलोकपालाधि28A ष्ठाननिमित्ताः । तदेवमादित्योदयाद्यपेक्षा काशश्रेणय एव पूर्वाद्या दिश इति । पूर्वादि- 20 दिकसम्बन्धाच्च मूर्त्तद्रव्येषु पूर्वापरादिप्रत्यय विशेषोत्पत्तिर्न तु परस्परापेक्षया, एकतरस्य पूर्वत्वासिद्धावन्यतरस्यापरत्वासिद्धेस्तदसिद्धौ चकतरस्य पूर्वत्वायोगादितरेतरांश्रयत्वादुभयासच्वप्रसङ्गात् ।
नंनु मूर्त्तद्रव्येषु पूर्वादिप्रत्ययस्या काश देश श्रेणय स्ताव निबन्धनम्, आकाशश्रेणिषु
१ तत्प्रदेशश्रेणयो दिशः ।। २ नैयायिक-वैशेषिका एकामेव दिशं मन्यन्ते || ३ '७' [ = विग्रहे 25 सप्तम्यन्तम् ] ॥ ४ '६' [ = विग्रहे षष्ठयन्तम् ] ॥ ५ पुंसाम् || ६ यथासङ्ख्येन ॥ ७ प्राची च सावाची च ॥ ८ कुतः ॥ ९ एकस्य वस्तुनः पूर्वत्वसिद्धौ द्वितीयस्यापरश्वसिद्धिः । द्वितीयस्यापरत्वसिद्धौ प्रथमस्य पूर्वत्वसिद्धिरितीतरेतराश्रयत्वम् || १० आकाशश्रेणिषु यः पूर्वमादित्योदयनिमित्तः पूर्वादिव्यवहारो निर्णीतोऽस्ति स किं दिगन्तरापेक्ष आहो एवमेवेत्यभिप्रायेण पूर्वपक्ष: ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org