SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १४८ स्थोपाटीकासहिते व्रव्यालङ्कारे तृतीये प्रकाशे आकाशस्तु व्यापितमत्वादवगाह्य एव । आकाशस्तु व्यापितमत्वात् सर्वद्रव्यापेक्षया महापरिमाणप्रकर्षवस्वादवगाह्य एव द्रव्यान्तरैस्यमवगाह्यते एव, न पुनरसी द्रव्यान्तरं किश्चिदवगाहते । यानि द्रव्याण्याकाशादल्पप्रमाणानि तेषामाकाशोऽवगाह्य उच्यते, तस्य तदपेक्षया महापरिमाण त्वात् । आकाशस्य पुनरन्यद् द्रव्यान्तरं समप्रमाणमधिकप्रमाणं च किश्चिदपि नास्ति, 5 26B ततोऽसौ क्वावगाहताम् । अवधारणेन च मिन्नावगाह्यापेक्षया यदवगाहकत्वं तदेवा काशस्याऽपाक्रियते, स्वात्मापेक्षं तु न निवार्यत एव । तत् आकाशादल्पप्रमाणानि द्रव्याण्याकाशावगाहकानि, आकाशस्तु स्वतोऽतिमहतो द्रव्यस्याभावात् स्वावगाहक एवेति स्थितम् । न चैव सर्वद्रव्याणां स्वावगाहकत्वप्रसङ्गः, असर्वगतत्वात् । न हि किश्चिदसर्वगतं स्वावगाहि दृष्टम् , अश्वादेर्जलाधवगाहकत्वदर्शनात् 'भिन्नदेशत्वाच्च । 10 अन्यथा दुरासनाद्यस्खलितप्रतीतिविरोधः । सम्प्रत्याकाशस्य साधकमनुमानं सूचयनागमं च प्रतिपादयन्नुपसंहरतितत सकृत् सर्वार्थावगाहदातृत्वादागमाञ्चाकाशसिद्धिः । तदित्यादि । तत् तस्मात् सकृदेककालं सर्वार्थावगाहस्य दातृत्वाद्दानाहत्वात् , 27A एतावताऽनुमानमाह, आगमाच्चाप्तपुरुषप्रणीतवचनाचाकाशसिद्धिराकाशस्य प्रमाण- 15 प्रतिष्ठितिः । युगपनिखिलावगाहः साधारणकारणापेक्षः, युगपनिखिलावगाहत्वात् , एकसरःसलिलान्तःपातिमत्स्याद्यवगाहवदिति । आगमस्त्वयम् "आगासत्थिकाए णं भन्ते जीवाणं किं पवत्तइ ? गोयमा ! आगासस्थिकाए जीवदव्वाण अजीवदव्वाण य भायणभूए [भगवतीमत्रे १३।४।२६] इत्यादीति । सम्प्रति मूलसूत्रोपात्तं कायपदमव्याख्यायैव परोपगतं दिगद्रव्यमाकाशद्रव्येऽ- 20 न्तर्भावयितुमाह तत्प्रदेशश्रेणयो दिशः, आदित्योदयापेक्षया पूर्वापरादिप्रत्यय १ आकाशस्तु व्यापितमत्वादवगाय एष ॥ २ आकाशस्य ॥ ३ आकाशस्य स्वावगाहकत्वेऽङ्गीक्रियमाणे सर्वाण्यपि वस्तूनि आत्मानमात्मनवावगाह्य स्थास्यन्ति, किमाकाशाङ्गीकरणेनेति प्रसङ्गः ॥ ४ पृथग्भूतावगाह्मपदार्थाभावे 'भिन्नदेशान्यमूनि' इति प्रत्ययो न स्यात् , किन्तु 'भिन्नान्येव' इति स्यात् ।। ५ 25 भिन्न भिन्ने देशेऽश्व-जले ॥ ६ भिन्न देशत्वानङ्गीकरणे वस्तूनाम् ॥ ७ * अत्र 'ननु स्वं प्रति' इति । अस्पष्टानि पृष्टप्रायाणि टिप्पणाक्षराणि कर्थाञ्चद् भासन्ते । ८ तत् सकृत् सर्वार्थावगाहदातृत्वादागमाशाकाशसिद्धिः ॥ ९ सर्ववस्तूनाम् ॥ १० आधारभूतः ॥ ११ * दयापेक्षपूर्वापरादि' इति मूलादर्श पाठः ।। For Private & Personal Use Only Jain Education International 2010_05 www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy