________________
१४७
248
आकाशास्तिकायसाधनम् । तद्यदि वायुरवगाहक्रियाया अपेक्षाकारणमभविष्यत्तदा कथमसावस्याः प्रतिबन्धमकरिष्यत् । न हि हेतुरेव विवन्धको युज्यते । तस्मात् पवनेऽपि नावगाहस्य दातृत्वम् ।
सम्प्रति क्षित्यादीनामन्येषां चावगाहदानाभावे पुष्टं हेतुमाह-सर्वेषामव्याप्यवगाहकत्वाच्च । सर्वेषामुक्तानां क्षित्यादीनामनुक्तानां चालोकतमोधर्माधर्मादीनाम् अव्या
पिनामविभूनां सतामवगाहकत्वादवगाहक्रियायाः परिणामिकारणत्वात् । क्षित्युदकतेजो- 5 538 वाय्वालोकतमोधैर्माधर्माः प्रतिनियतदेशावस्थायिनस्ततः कथं सकृत् सर्वात्मनामवगाह
क्रियायाः साधारणं कारणं भवेयुः । तथा स्वयमपि चैतेऽवगाहकास्ततोऽमीषामप्यवगाहमानानामपेक्षाकारणेनान्येन भाव्यम् , तथा चानवस्था स्यात् ।
ननु धर्माधर्मास्तिकायौ व्यापिनौ स्तः, ततस्ताववगाहस्यापेक्षाकारणं भविष्यत इति । उच्यते-यद्यप्येतो व्यापिनी तथापि सकृत् सर्वजीवादिद्रव्याणामवगाहस्य 10 कारणं न भवतः, स्वयमेवावंगाहकत्वात्तदवगाहस्यापि कारणान्तरापेक्षयाऽनवस्था प्रसङ्गात् ।
स्यादेवम्-न क्षित्यादयो जीवादिद्रव्याणामवगाहस्य कारणम् , किं तर्हि ? मूर्त्तद्रव्याभावः, यत्र हि मूर्त द्रव्यं पुरतो न भवति तत्र जीवादीनामवंगाहो भवति नान्यत्रेति । अत्राप्याह
न मूर्त्ताभावे, निरुपाख्यस्य दातृत्वाभावात् ।
नेति । अवगाहस्य दातृत्वमिति स्मर्यते । जीवादिद्रव्याणामवगाहस्य दातृत्वं न मूर्तानां द्रव्याणामभावेऽवतिष्ठते, निरुपाख्यस्य दातृत्वाभावात् । निरुपाख्यस्य सर्वोपाख्यारहितस्य सर्वशक्तिशुन्यस्य दातृत्वाभावादवगाहदानक्रियाऽनहत्वात् । यदि मृर्तद्रव्याभावोर्थक्रियासमर्थ भावान्तरमेयोच्यते तदा तदाकाशमेवेति नाम्नि विप्रति- 20 पत्तिः । अथ सर्वशक्तिशून्यमवस्तूच्यते तदा कथं तदवगाहदानक्रियां कुर्यात् , वस्तुत्वप्रसङ्गात् । तदवगाहदायकत्वं मूर्नाभावेऽपि नावतिष्ठते, ततः पारिशेष्यादाकाश एवावतिष्ठत इति स्थितम् । __नन्वेवमाकाशस्याप्यवगाहकत्वादन्यदवगाचं कल्प्यताम् , तस्याप्यवगाहकत्वे परमवगाह्यमित्यनवस्था स्यादिति । अत्राह
25 १ अवगाह क्रियायाः ॥ २ पुण्यपाप || ३ पुण्य ॥ ४ पाप ॥ • अत्र एकस्मिन्नेव पत्रे २२-२३-२४ अङ्काः ।। ५ आदिशन्दात् पुद्गल-धर्मास्तिकाया-धर्मास्तिकाया गृह्यन्ते ।। ६ धर्माधर्मास्तिकाययोः ॥ ७ परिणामिकारणम् ।। ८ गमनागमनादिरूपः ॥ ९ न मूर्ताभावे ॥ * 25A पत्रं लिखित्वा [] इति चिन निराकृतम् ॥ १० भभावस्य तुच्छरूपस्य ॥ ११ त्वया ।।
15
25B
26A
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org