________________
5
१४६
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे 200 सम्प्रत्ययात् । न चायं भ्रान्तः, वाधकाभावात् । एकस्यानेकदेश-कालव्यापिनोभावे
सर्वशून्यताप्रसङ्गात् । भावे पुनरवगाथावगाहकभावाविरोध एव । शीत-वाता-ऽऽतपादीनामभिन्न देशतयावगमाचावगाडा-ऽवगाहकभावसिद्धिः, परस्परमवगाहानुपपत्तौ भिन्नदेशत्वप्रसङ्गात् लोष्टद्वयवत् । ततो यथा प्रतिनियतानामवेगाहकानां प्रतिनियतमवगाचं सिद्धं तथा संकृत् सर्वावगाहिनामवगाह्यमाकाशं सिद्धम् ।
अथ कोऽयमवगाहो नामेति ? उच्यते-नियेतस्य नियताकारस्यावगाहकस्य जीवद्रव्यादेस्तस्मादवगाह्यादबहिर्भावस्तन्मध्यसत्त्वमवगाहः । एवंरूपश्चावगाहो धर्मा-ऽधर्मास्तिकाययोरपि नियताकारत्वादस्तीति न ताववगायौ कल्पनीयौ । नियताकारत्वं च लोकस्य संस्थानवत्वेन तैयोस्तदाकारत्वात् । आकाशस्य त्वनन्तत्वान नियताकारत्वम् ।
10 ननु सकृत् सर्वजीवादिद्रव्याणामवगाहक्रियाया अपेक्षाकारणं किमप्यस्ति, स 21 पुनराकाश एव नान्ये क्षित्यादय इत्यत्र किं निवन्धनम् ? उच्यते
न दातृत्वं क्षित्यादौ, तदभावेऽपि भावात् । न पवने, गरोयसा प्रतिस्खलनात् । सर्वेषामव्याप्यवगाहकत्वाच्च ।
न दातृत्वं क्षित्यादौ तदभावेऽपि भावात् । आदिशब्देनोदक तेजसोहः । जीवादि- 15 द्रव्याणामवगाहक्रियायाः क्षित्युदकतेजांसि न दातृणि भवन्ति, तदभावेऽपि क्षित्याद्यभावेऽपि जीवादिद्रव्यावगाहक्रियाया भावात् । यत्र क्षित्युदकतेजांसि न सम्भवन्ति
तत्रापि देव-सिद्धाद्यात्मनामवगाहक्रिया दृश्यन्ते । यदि च क्षित्यादयोऽवगाहफ्रियाणां 21B कारणं भवेयुस्तदा तास्तत्र कथं नाम स्युः ? तस्मान्नावगाहक्रियादातृत्वं क्षित्यादौ ।
___ यद्येवं तर्हि वायौ भविष्यतीति अत्राह-न पवन इति । दातृत्वमिति योगः। 20 जीवादिद्रव्यावगाहस्य दातृत्वं न पवने सम्भवति । गैरीयसाऽतिमहता, पवनेनेति
विशेष्यं विभिक्तिव्यत्ययेनामिसम्बध्यते, प्रतिस्खलनात् जीवादिद्रव्यावगाहस्य प्रतिरोधात् । 22A महता हि मरुता गजेन्द्रोऽपि गच्छन् प्रतिरुध्यते किमङ्ग पुनस्तृण-तूलादि पेलवं
द्रव्यम् । तथा दृतिमध्यभागवत्तिना वायुना पिण्डीभूतेनाधः प्रपतन्त्यम्भांस्यवष्टभ्यन्ते, १ स्थूलस्थिरार्थसंप्रत्ययः ॥ २ एकस्य स्थूलस्थिरस्य पदार्थस्य अवयविन इत्यर्थः ॥ ३ यत् प्रत्यक्ष स्थिर स्थूल 25 । च वस्तु तन्नाभ्युपेयते यत् क्षणिकं परमाणुस्वभाव तत् प्रत्यक्षं न हीति सर्वशून्यत्वं प्राप्नोतीति भावः ॥ ४ अविरोधमेव भावयति ॥ ५ मत्स्यादीनाम् ॥ ६ जलादि ॥ ७ युगपत् ॥ ८ सर्वावगाहकानाम् ॥ ९ नियतस्य तदबहिर्भावोऽवगाहः ॥ १. धर्माधमर्योः ॥ ११ लोकसंस्थानाकारत्वात् ॥ १२ गरीयसा प्रतिस्खलनात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org