________________
10
आकाशास्तिकायसाधनम् ।
१४५ तदेवं धर्माधर्मास्तिकाययोः सत्ता प्रसाध्य द्रव्यत्वप्रसाधनाय तद्धर्मानुपदर्शयतिअमूर्तत्वादयस्तद्धर्मा इति । तयोर्धर्मा-ऽधर्मास्तिकाययोरमूर्त्तत्वादयो गुण-पर्याया भवन्ति । 19 B गुण-पर्यायवच्च द्रव्यम् । आदिशब्दादगुरुलघुत्वा-ऽसङ्ख्थेयप्रदेशत्व लोकाकाशव्यापित्व
लोकालोकविभागहेतुत्व-गतिस्थित्यपेक्षाकारणत्वादिपरिग्रहः । एत एवासाधारणधर्मवर्जा धर्मा आकाशस्यापि वाच्याः । अमूर्तत्वे च सिद्धे परोक्षत्वमपि समसिध्यत् , 5 अचेतनामूर्त्तद्रव्यस्य परोक्षत्वात् । कथं तर्हि 'देह व्योमभागे शकुन्तः, इह न' इति प्रत्ययः ? आलोकमण्डलमाश्रित्येति बमः । 'ईहालोकः, ईंह न' इति पुनरालोकावयवानाश्रित्येति । इतिकरणो धर्मा-ऽधर्मास्तिकायप्रक्रमप्रवासं पिशुनयति ।
तदेवं धर्मा-ऽधर्मास्तिकाययोस्तृतीय-तुरीयद्रव्ययोर्लक्षणमभिधाय पञ्चमद्रव्यस्याकाशस्याभिदधाति
अवगाहस्य दातृ आकाशम् । नियतस्य तदबहिर्भावोऽवगाहः ।
अवगाहस्य दात्राकाशम् । जीवादिद्रव्याणामवगाहस्य वक्ष्यमाणस्य दातृ दानाह यत्तदाकाशम् ।दात्रित्यत्र "अर्ह तृच्" [सि० ५।४।३७] इति तृच । अवगाहस्येति
कर्मणि षष्ठी । “कर्मजा तृचा च" [सि० ३।११८३] इति षष्ठीसमासप्रतिषेधाद् 15 20A व्यस्त निर्देशः । ततो यदाकाशमवगाहं ददाति यच्च न ददाति तदुभयमप्यवगाह
दानाईत्वेन सगृह्यते । तेन यद्यप्यलोकाकाशे जीवादिद्रव्याणि नावगाहन्ते तथापि तदाकाशमुच्यते । तद्धि जीवादिद्रव्यावगाहदानोन्मुखमेव सर्वदाऽप्यवतिष्ठते, केवलं गति-स्थितिनिमित्तधर्मा-धर्मास्तिकायाभावाजीवादिद्रव्याण्येव तत्र नावगाहन्ते ।
अयं च योगो लक्षणकथनद्वारेणाकाशस्य साधकानुमानसंसूचकः । यत् सकृद- 20 शेषजीवादिद्रव्याणामवगाह क्रियायाः साधारणमपेक्षाकारणं स आकाशः । बाह्यार्थानां क्षणिकपरमाणुस्वभावत्वादवगाह्यावगाहकभावाभाव इति चेत् । न । स्थूलस्थिरार्थ
१ 'इह व्योमभागे' इति कोऽर्थः ? इह आलोकमण्डले ॥ २ इह प्रदेशे आलोक इति प्रत्ययः किंनिबन्धन इत्याशङ्कायामाह || ३ ननु 'इहालोकः' इत्यत्र 'इहालोकावयवेषु आलोकोऽवयवी अस्ति' इति कल्पितम् । 'इह नालोकः' इत्यत्र 'इह'शन्देन किमुच्यते ? अत्राप्यालोकावयवा एव । कथम् ? यत आलोकावयवा एव 25 तमोरूपतया परिणमन्ते ततः कोऽर्थः? इह तमोरूपतया परिणतेषु आलोकावयवेषु आलोको नास्ति । यद्वा सूक्ष्मा आलोकपरमाणवः सर्वत्र सन्ति तानाश्रित्य ॥ ४ विवादपदमाकाशं समस्ति सकृदशेषजीवादिद्रव्याणामवगाहक्रियायाः साधारणकारणत्वात् कालादिवत् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org