________________
१४४
19A
स्थोपाटीकासहिते यालङ्कारे तृतीये प्रकाशे सम्प्रति तेदित्यादिना धर्मा-धर्मास्तिकायसत्तासाधकमनुमानं पिशुनयन्नुपसंहार18 माह-तत् तस्मात् सकृदेककालं सर्वार्थानामशेषाणामपि जीव-पुद्गलानां ये गति-स्थिती
तयोरनुग्राहकावुपष्टम्भकी लोकालोकयोर्या व्यवस्था विभागस्तस्या हेतू कारणे धर्माधर्मास्तिकायौ सिद्धौ प्रमाणेन प्रतिष्ठितौ, तथाहि-विवादापन्नाः सकलजीव-पुद्गलाश्रयाः सकृद् गतयः साधारणबाह्यनिमित्तापेक्षाः, युगपद्भाविगतित्वात् , एकसरःसलिलाश्रया-5 नेकमत्स्यादिगतिवत् । तथा सकलजीव-पुद्गलस्थितयः साधारणबाह्यनिमित्तापेक्षाः; युगपद्भाविस्थितित्वात् , एककुण्डाश्रयानेककवचादिस्थितिवत् । यच्च गति-स्थित्योः साधारणं निमित्तं स धर्मोऽधर्मश्व, अन्यस्य पदार्थराशेः पूर्वमेव प्रत्याख्यातत्वात् ।
न केवलं पूर्वोदितयुक्तिकलापाद्धर्मा-ऽधर्मास्तिकायौ सिद्धौ, आगमाच्च सिद्धौ, आगमादाप्तपुरुषप्रणीतवचनात् । अतीन्द्रियाणां हि पदार्थानां सत्ताश्रद्धाने नासपुरुष- 10 प्रणीतवचनात् परमार्थतोऽन्यत् प्रमाणं शरणमर्वाग्दृशामस्ति । यदेताः पुनः पूर्वोदिता युक्तयस्ताः केवलमागमगजेन्द्रस्य प्रतिवादि द्विरदान दलयतस्तलवर्गप्रतिनिधय एव । आगमश्चायम्
"धम्मत्थिकाए णं भंते ! जीवाणं किं पवत्तइ ? गोयमा! धम्मत्थिकाए णं जीवाणं आगमण-गमण-भास-उम्मेस मणजोगे वयजोगे कायजोगे, जे आवने तप्पगारा चला 15 भावा सव्वे ते धम्मत्थिकाए पवत्तंति । गइलक्षणे णं धम्मत्थिकाए । अहम्मथिकाए णं जीवाणं किं पवत्तइ ? गोयमा! अहमथिकाए णं जीवाणं ठाणनिसीयण-तुयट्टण मणस्स य एगत्तीभावकरणया, जे आवने तप्पगारा थिरा भावा सव्वे ते अहम्मत्थिकाए पवतंति । ठाणलक्षणे णं अहम्मत्थिकाए" [भंगवतीसूत्रे १३।४।२४-२५] इति । तस्य च प्रामाण्यं प्रथमप्रकाशप्रसाधितप्रामाण्यपहीणाशेषकलुषपुरुषप्रणीतत्वादवगन्तव्यम् ।
१ तत् सकृत् सर्वार्थगति-स्थित्यनुग्राहको लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायौ सिद्धौ ।। २ '६' विग्रहे षष्ठयन्तम् ] ॥ ३ . "प्रवर्तनद्वारे आगमण-गमणेत्यादि । आगमन-गमने प्रतीते, भाषा व्यक्तवचनम् , 'भाष व्यक्तायां वाचि' [पा० धा० ३९६] इति वचनात् । उन्मेषोऽक्षिव्यापारविशेषः । मनोयोग-वागयोग-काययोगा: प्रतीता एव । तेषां च द्वन्द्वः, ततस्ते । इह च मनोयोगादयः 25 सामान्यरूपाः, आगमनादयस्तु तद्विशेषा इति भेदेनोपात्ताः, भवति च सामान्यग्रहणेऽपि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थमिति । जे यावन्न तहप्पगार त्ति ये चाप्यन्ये आगमनादिभ्योऽपरे तथाप्रकारा आगमनादिसदृशाः भ्रमण-चलनादयः चला भाव त्ति चलस्वभावाः पर्यायाः सर्वे ते धर्मास्तिकाये सति प्रवर्तन्ते ।कुत इत्याह-गइलक्खणे ण धम्मत्थिकाए ति । ठाण-निसीयण-तुयट्टण त्ति कायोत्सर्गासनशयनानि, प्रथमाबहुवचनलोपदर्शनात् । तथा मनसश्च अनेकत्वस्य एकत्वस्य भवनमेकरवीभावः, तस्य यत् करणं तत्तथा" 38 इति भगवतीसुत्रस्य अभयदेवसरिविरचितायां वृत्तौ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org