________________
५४३
___10
धर्माधर्मास्तिकायसाधनम् । सदा सन्निधानेऽपि एतयोः स्वतो गति-स्थितिपरिणामिनामेवोपग्राहकत्वान्न सदा भावः ।
सदा सन्निधानेऽप्येतयोर्धमा-ऽधर्मास्तिकाययोः, आवृत्यै(य)वैतयोर्गतिस्थित्योर्न सदा भावो न सर्वदा भाव इति सम्बन्धः । स्वतः स्वभावतो गति-स्थितिपरिणामिनामेव जीव-पुद्गलानामुपग्राहकत्वादुपष्टम्भकत्वात् । एतयोरित्यत्रापि स्मयते । एतयोधर्मा- 5
ऽधर्मास्तिकाययोगति-स्थित्योश्च । यद्यपि गति-स्थित्योरपेक्षाकारणं धर्मा-ऽधर्मास्तिभD कायावतिप्रियमित्रमिवाहनिशं जीव-पुद्गलानामुपशल्यवर्तिनी तथापि न "ते तेषां
सदा भवतः, स्वतः परिणामिकारणाद् भवन्त्योरेव गति-स्थित्योर्धर्मा-ऽधर्मास्तिकाययोस्पष्टम्भमात्रकारित्वात् । धर्मा-ऽधर्मास्तिकायौ हि गतिस्थिती स्वतो भवन्त्यावुपएम्भयतः, न पुनरुत्पादपराङ्मुखे हठादुत्पादयतः ।।
स्यान्मतम्-गति-स्थित्योर्द्वयोरप्यपेक्षाकारणमेक एव धर्मास्तिकायोऽधर्मास्तिकायो चा भवतु, पूर्यते द्रव्यद्वयकल्पनयेति । अत्राह
न चैक एवोभयकार्यः, धर्मा-ऽधर्मविभागाभावप्रसङ्गात् । एक एव ह्यन्यतरस्तत्तत्प्रत्ययसन्निधानतः सुख-दुःखहेतुः स्यात् ।
नै चैक एव धर्मास्तिकायोऽधर्मास्तिकायो वोभयं गति-स्थितिलक्षणं कार्य 15 यस्य स उभयकार्यः, धर्मा-ऽधर्मविभागाभावप्रसङ्गात् , धर्माधर्मयोः पुण्य-पापयोविभागो विवेको .. यस्तस्याऽभावप्रसङ्गात् । 'हिर्यस्मादेक एवाऽन्यतरो धर्मा-ऽधर्मयोर्मध्यात् तत्तत्प्रत्ययसन्नि
धानतस्तस्य तस्य सुखहेतोःखहेतो; सहकारिणः सामीप्येन सुख-दुःखहेतुः स्यात् । यदि धर्मास्तिकाया-ऽधर्मास्तिकाययोर्मध्यादेक एव गति स्थितिं च कुर्यादिति द्वयकल्पनावैययं तदा पुण्य-पापयोरपि मध्यादेकं पुण्यं पापं वा किञ्चित् तत्तत्सहकारि- 20 सन्निधानवशेनाऽऽत्मनां सुखं दुःखं च कुर्यादिति तयोरपि द्वित्वकल्पनावैयर्थ्य प्रामोति । तद् यथा परस्परमिन्नकार्यकर्तृत्वेन पुण्या-ऽपुण्ययोः पार्थक्येन कल्पनं तथा धर्मा-ऽधर्मास्तिकाययोरपि ।
तत्सकृत सर्वार्थगति-स्थित्यनुग्राहको लोका- लोकव्यवस्थाहेतू धर्मा-ऽधर्मास्तिकायौ सिद्धौ । आगमाच्च । अमूर्तत्वादयस्तद्धर्मा इति। 25 १ सदा सन्निधानेऽप्येतयोः स्वतो गति-स्थितिपरिणामिनामेधोपग्राहकत्वान्न सदा भावः ॥ २ गतिस्थिती ॥ ३ न चैक एवोभयकार्यः ॥ ४ पक पव झन्यतरस्तत्तत्प्रत्ययसन्निधानतः सुख-दुःखहेतुः स्यात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org