________________
૧૪૨
स्त्रोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे नाप्यालोक-तमसोः, प्रत्येकमुभयाभावेऽपि भावात् । विशेषाव्यभिचारेऽपि सामान्य व्यभिचारि । तदेव च पक्षः । गतिस्थितिमत्त्वाच्च ।
एवं तालोक-तमसोरपेक्षा भविष्यतीति । न। नाप्यालोक-तमसोः, प्रत्येकमुभयाभावेऽपि भावात् । अपेक्षेति सम्बध्यते । प्रत्येकमुभयोरालोक-तमसोरभावेऽपि भावात् जी-5 पुद्गलगति-स्थित्योः, दिवा तमोऽभावेऽपि गति-स्थिती भवतो रात्रौ पुनरालोकाभावेऽपि च । न च यद् यदभावेऽपि भवति तत् तस्य कार्यमिति व्यवहत्तुं शक्यम् ।
स्यादेवम्-ये दिवा गति-स्थिती ते आलोकनिबन्धने, ये पुना-रात्रौ ते तमो निबन्धने, तत् कुतो व्यभिचार इति ? अत्रोच्यते-'विशेषाव्यभिचारेऽपि दिवारात्रिविशेषणविशिष्टयोर्गति-स्थित्योः स्वकारणालोक-तमोऽव्यभिचारेऽपि सामान्य व्यभिचारि, दिवा- 10 रात्रिविशेषणनिरपेक्षं गति-स्थितिसामान्यमालोक-तमसी व्यभिचरति । निर्विशेषणं गति-स्थितिसामान्यं प्रत्येकमालोक-तमसोरभावेऽपि भवतीत्यर्थः ।
ननु व्यभिचरतु सामान्यम् , विशेषः पुनरव्यभिचार्येवेति । न । तदेव च 16. पक्षः । निर्विशेषणं गति-स्थितिसामान्यं पक्षः साध्यधर्मी, सामान्ययोर्जीव-पुद्गलानां
गति-स्थित्योः कारणान्तरापेक्षत्वमस्माभिः साध्यते, न पुनर्दिवा-रात्रिविशेषणविशिष्टयोः। ।। तयोश्च व्यभिचारोऽस्त्येव ।
न केवलं प्रत्येकमुभयाभावे भावानालोक-तमसोरपेक्षा, तथा गति-स्थितिमत्त्वाच्च । तथाहि-आलोक-तमसोः पुद्गलत्वेन परस्परापेक्षे गति-स्थिती विद्यते, ततो यदि
गति-स्थित्योरपेक्षाकारणमालोक-तमसी स्यातां तदा ये आलोक-तमसोरेव गति-स्थिती 16B तयोरपरे आलोक-तमसी कारणान्तरं मृग्ये, तथा चानवस्था । तस्मात् सर्वस्यापि 20
वस्तुजातस्य जीव-पुद्गलगति-स्थिती प्रत्यपेक्षाकारणत्वाघटनाद्धर्मा-धर्मास्तिकायावेव सदा समिहितौ व्यापिनौ सर्वसाधारणावपेक्षाकारणमिति स्थितम् ।
ये त्वाहुरीश्वर एव जीव-पुद्गलगति-स्थितीनामपेक्षाकारणमिति ते ईश्वरसद्भावनिराकारेणैव निराचक्रिरे इति न तदर्थ सूत्रसमारम्भसंरम्भो व्यधायि ।
ननु यदि धर्माधर्मास्तिकायौ व्यापिनौ सदा सन्निहितौ गति-स्थित्योरपेक्षा- 25 कारणं तदा किमिति ते सदा न प्रादुस्तः, न खल्वविकलकारणस्य कार्यस्य काल17. क्षेपो युक्त इति । अत्राह
१ विशेषाव्यभिचारेऽपि सामान्य व्यभिचारि ॥ २ गतिपूर्विका स्थितिः, स्थितिपूर्विका गतिरित्यर्थः ॥ ३ निषेधेनैव ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org