________________
धर्माधर्मास्तिकायसाधनम् ।
१४१ तत एव न शुभाशुभयोः, अव्यापकयोस्तन्निबन्धनवे सर्वत्र तत्प्रसङ्गात् , मुक्तेष्वपि भावाच्च, न हि तद्गति-स्थिती पुरुषानुपकुरुतः ।
तेत एवेति लोकालोकविभागाभावप्रसङ्गादेव न शुभा-ऽशुभयोः पुण्या-ऽपुण्ययोरपेक्षेति सम्बन्धः । जीव-पुद्गलगति-स्थित्योः शुभा-शुभे आप नापेक्षाकारणम् । 5 अव्यापकयोनियतदेशस्थयोः शुभा-शुभयोः तन्निबन्धनत्वे तयोर्गति-स्थित्योनिमित्तत्वे सति सर्वत्र लोकेऽलोके च तत्प्रसङ्गात् तयोर्गति-स्थित्योः प्रसङ्गात् । यथा हि शुभाशुभे नियतदेशस्थे स्वजीवानां स्वजीवोपकारिणां पुद्गलानां च सर्वत्र लोके गतिस्थिती कुरुतस्तथा लोकमर्यादापरेऽलोकेऽपि कुरुतां नियतदेशस्थत्वस्योभयत्रापि HA तुल्यत्वात् । यत्र च जीव-पुद्गलानां गति-स्थिती स लोकः । ततोऽलोकस्यापि 10
लोकत्वप्रसङ्गेन लोकालोकविभागाभावः प्रामोति । अस्ति च लोकालोकविभागः । ततो न जीव-पुद्गलगति-स्थित्योः शुभा-ऽशुभयोरपेक्षा,किं तर्हि? धर्मा-ऽधर्मास्तिकाययोः ।
न केवलं लोकालोकविभागाभावप्रसङ्गाजीव-पुद्गलगति-स्थित्योर्न शुभा-ऽशुभयोरपक्षा, तथा मुक्तेष्वपि भावाच्च न तयोरपेक्षेति, मुक्तात्मानोऽप्यायुष्प्रक्षये सत्यमुमसारं संसार 14 विहार्यकान्तिकात्यन्तिकसुखसुधानिधानास्पदं परमं पदं प्रयान्ति, प्रयाताश्च प्रयाता- 15
वधि कालमवस्थानमावघ्नन्ति । ततो यदि गति-स्थिती शुभा-ऽशुभापेक्षे स्यातां तदा मुक्तात्मसु न स्याताम् । 'हिर्यस्मान्न तद्गति-स्थिती तेषां मुक्तात्मनां गति-स्थिती पुरुषान् संसार्यात्मन उपकुरुतः । मुक्तात्मनां तावदात्मीये शुभा-ऽशुभे मुक्तत्वादेव न स्तस्ततः पुद्गलानाभिव गति-स्थिती संसार्यात्मसम्बन्धिशुभा-ऽशुभनिबन्धने वाच्ये। तत्र पुद्गलानां संसार्यात्मसम्बन्धिशुभा-ऽशुभनिबन्धने गति-स्थिती युक्ते, संसार्यात्म- 20
प्रयोजनेडु पुद्गलानामुपकारित्वात् । मुक्तात्मनां पुनर्न युक्ते । न हि तेषामूद्ध गतिHA स्थिती संसार्यात्मनां कश्चित पुरुषार्थमावहतः । तद्यदि गति-स्थिती शुभा-ऽशुभापेक्षे
कक्षीक्रियेते तदा मुक्तात्मनां ते न प्राप्नुतः, स्वकीययोः शुभा-शुभयोरभावात् संसार्यात्मसम्बन्धिनोस्त्वनुपकारकत्वेनाऽद्धेितुत्वात् । ततो लोकालोकविभागाभावप्रसङ्गाद् मुक्तात्मनां गति-स्थित्योरघटनाच न जीव-पुद्गलगति-स्थित्योः शुभा-ऽशुभयोरपेक्षा । 25
१ तत एव न शुभाशुभयोः, अव्यापकयोस्तन्निबन्धनत्वे सर्वत्र तत्प्रसङ्गात् ॥ २ लोकेऽलोके च || ३ शुभाशुभयोः ॥ ४ न हि मुक्तात्मनां शुभाशुभे स्त इति भावः ॥ ५ न हि तद्गतिस्थिती पुरुषानुपकुरुतः ॥ ६ गतिस्थित्यहेतुत्वादित्यर्थः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org