Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
कृच्छ्रप्राप्यं तथा क्षेत्रादिसामग्र्यपीत्याह - तद्वत् नरत्ववत् क्षेत्रं भरतादिकर्मभूमिरूपम्, आदिशब्दाज्जाति -कुल- रूपा -ऽऽरोग्याऽऽयुष्कधर्मबुद्धि-श्रवणावग्रह-श्रद्धा-संयमपरिग्रहः । समग्राणां संपूर्णानां धर्मसाधनानां भाव: सामग्री, क्षेत्रादिश्चासौ सामग्री च, सापि न केवलं नरत्वमित्यपेरर्थः, समधिगता सम्यक् प्रतीता । कथम्? इत्याह – दुर्लभैव दुःप्रापैवेयमिति, अथवा अनेकार्थत्वाद्धातूनां समधिगता प्राप्तेत्यर्थः, इति एतत् सम्यग् यथावस्थितत्वेन, न ह्येतदन्यथेति भाव:, मत्वा अवबुध्य, कीदृशाः सन्तः? महाकुलं प्रशस्तविशुद्धपितृपक्षरूपम्, तस्यापत्यानि महाकुलाद् वाऽञीनञ [ सिद्धम० ६ । १ । ७७ ] इतीनञि वृद्धौ च माहाकुलीना इति । श्रोतॄणां श्रुतिविषयोत्साहनार्थं चैतद्विशेषणम् । उपदेशमाह—– कुरुत विधत्त कुशलतां निपुणताम् । केषु ? इत्याह — धर्मं सुकृतं तत्प्रधानानि कर्माणि व्यापारास्तीर्थकृद्भक्त्यादयस्तेषु अजस्त्रं निरन्तरम् । अयमभिप्रायः—यथा केनापि जिगीषुणा भूपेन प्रभूतद्रव्यदानसम्मानादिना कथञ्चिदावर्ज्यानीतेषु दूरदेशान्तरीयेषु सहायभूपेषु रिपुवर्गग्रहणाय न विलम्बः प्रमादो वा क्रियते तथा भवद्भिरपि महाकृच्छ्रप्राप्तेषु धर्मसाधनेषु क्षेत्रादिषु सर्वथा प्रमादो विलम्बो वा धर्मकर्मसु न कार्य इति । चोल्लकादिदृष्टान्तस्वरूपं च प्रायः सिद्धान्तप्रसिद्धेः सुप्रतीतमेव । तच्चैवं
७
संक्षेपतः
-
१ सकल भरतवर्षासंख्यपस्तेषु भुक्त्वा - ऽप्यथ पुनरशनी स्याद्ब्रह्मदत्तस्य गेहे । स हि कथमपि विप्रः संसृतौ नैव नृत्वं सुलभमिह निमग्नं रम्यरत्नं यथाब्धौ ॥ १॥
१. तृतीयपरिशिष्टे द्रष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142