Book Title: Dharmshiksha Prakaranam
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 50
________________ धर्मशिक्षा प्रकरणं सवृत्तिकम् व्याख्या - यो गुणिसम्बन्धमुज्झन् धर्ममिच्छेत् स चन्द्रिकास्नानादिकं कुर्यादिति सम्बन्धः । यः कश्चिदविवेकी पुरुषः सङ्गमालापादिसम्पर्कमुज्झन् परित्यजन् । कैः सहेत्याह – ज्ञानं च क्रिया च प्रत्युपेक्षादिसमाचारी, ते विद्येते येषां ते ज्ञान-क्रियावन्तस्ते च ते गुणिनश्च पूर्वोक्तास्तैरपि, आस्तां निर्गुणैरित्यपेरर्थः । किमित्याह - इच्छेत् अभिलषेत् धर्मं निःश्रेयसानुगुणमनुष्ठानम् । कीदृशम् ? परं प्रकृष्टमक्षेपेण मोक्षसाधकं कर्तुमिति शेषः । किमर्थम् इत्याह- शिवाय मोक्षायेति । स गुणिसङ्गत्यागी परमार्थतः किं किं कुर्यादित्याह – स्नातः स्नानं कृतवान्। काभिरित्याह— चन्द्रिकाभिः चन्द्रज्योत्स्नाभिः, न खलु सलिलसाध्यं स्नानमसलिलरूपाभिर्ज्योत्स्नाभिः सम्भवति, परं स तदपि कृतवान्। अन्यदपि किमसौ कृतवानित्याह — स च गुणसम्पर्कत्यागी, किलेत्यलीके, तृप्तः सौहित्यवान् सम्पन्नः। कैरित्याह— ग्रीष्मे मरौ तप्तभूमिषु स्वच्छासु प्रतिफलिता दिवा - करकरा एव मृगतृष्णा, सैव जलाकारतया भ्रान्त्या प्रतिभासनाज्जलानि सलिलानि तैरेव, न तु पारमार्थिकैरित्यवधारणार्थः । वक्ष्यमाणवाक्यत्रये धत्ते बिभर्त्तीत्यादि वर्त्तमाननिर्देशेऽपि, यदत्र वाक्यद्वये स्नात इत्याद्यतीतकालनिर्देशः सोऽत्यन्तमुग्धस्य गुणिसङ्गवर्जनेन धर्मेच्छामात्रेणाप्यसत्कार्यस्य सिद्धत्वख्यापनार्थस्तेन वक्ष्यमाणेष्वपि त्रिषु सिद्धत्वमेव बोद्धव्यमिति भावः । २१ तथा स पुरुषः खाब्जैः गगनकमलैः करणभूतैर्मालां स्रजं धत्ते विभूषार्थं धारयति शिरसि मस्तके, न चाकाशे कमलसम्भवः। तथा स पुरुषः शशशृङ्गाज्जातं गेहादित्वादीये शशशृङ्गीयं तच्च तच्चापं च धनुश्च बिभर्त्ति बाणसन्धानाय धारयति । न च शशे शृङ्गसम्भवः । तथा मथ्नाति १. 'गहादिभ्यः [ सि० ६ । ३ । ६३] एभ्यो यथासम्भवं देशार्थेभ्य: शेषे ईयः स्यात् । गहीयः । ' सिद्ध० लघु० । गहादिभ्यश्च । ४ । २ । १३८ । १३६४ - पा० सिद्धान्त० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142